पृष्ठम्:न्यायलीलावती.djvu/३०४

एतत् पृष्ठम् परिष्कृतम् अस्ति
२३१
न्यायलीलावतीकण्ठाभरण- सविवृतिप्रकाशोद्भासिता


न्यायलीलावतीप्रकाशविवृतिः करणकालाप्रसिद्ध्या मात्रपदव्यवच्छेद्याप्रसिद्धिः । यद्यप्युपाधिदातृमते साधने व्यापकत्वमनुमानकर्त्तृमते च पवनपरमाणोरेव साध्याव्यापकत्वं तथापि प्रलय सन्देहदशायामुभयसन्देहेऽपि सन्दिग्धोपाधित्वं भवत्येवेति मिश्राः ।

 अत्रेदं चिन्त्यम्, – सन्दिग्धोपाधिर्दूषणं भवत्येव परन्तु प्रकृते साध्यव्यापकतायां साधनव्यापकताया नियमात् साधनाव्यापकत्वे च साध्याव्यापकत्वनियमादुपाधिताप्रयोजकरूपद्वयान्यतरव्यतिरेकनिश्चायकत्वमुपाधित्वम् । किं च व्यभिचारे सत्युपाधिर्न्न चात्र व्यभिचारः, अत एव शब्दखण्डे इदमेव सिद्धान्तानुमानमिति । नवीनास्तु साधनाध्यापकत्वमनुमानकर्तृमतेनैव तथा चोपाधिरित्यस्य पू तन्मत इत्यर्थ: । अणुभिन्नत्वाव. च्छिन्नसाध्यव्यापकत्वाच्च न साध्याव्यापकत्वम् । न च स्वीकृतत्रिविधोपाधिवहिर्भावः, त्रैविध्यस्योपलक्षणत्वादन्यथा परमाणुरूपं प्रत्यक्षं प्रमेयत्वादित्यत्र वहिर्द्रव्यत्वावच्छिन्न साध्यव्यापकं रूपत्वमुपाधिर्न स्यात् । न च व्यभिचाराभावे कथमुपाधिरिति वाच्यम्, शून्यपदस्य ध्वंसतया मनःप्रभृतौ व्यभिचारसम्भवात् । अत एवारम्भकत्वादितिहेतुरुक्तोऽन्यथा मेयत्वस्यैव तत्वापत्तेः । द्रव्य समवायिकारणत्वहेत्वभिप्रायेण च शब्दखण्डे सिद्धान्तानुमानमिति वदन्ति । अत्र शून्यपदस्य ध्वंसपरतायां कार्य्य एवावयवे अणुभिन्नत्वावच्छिन्नं साध्यमिति भतत्युपाधेः साध्यव्यापकत्वं निश्चितम्, सन्दिग्धसाधनाव्यापकत्वं च व्योमादौ, तत्राणुभिन्नत्वावच्छिन्न साधनसत्त्वात् । अनुमानकर्त्तृमते चोपाघेरसत्त्वादित्यभिसन्धिः । अत्रापीदं चिन्त्यम्-- -तथा साध्ये व्यभिचारस्य स्फुटतया किमर्थमुपाधि गवेषणमिति । अत्र वदन्ति । परमाणूनां सामान्यतः पक्षतायां सिद्धसाधनमित्येक कालावच्छिन्नस्य पक्षत्वं वाच्यम् । स च कालोपाधिः कार्यद्रव्याधिकरणमन्यथा वा । आद्ये बाधः कार्यद्रव्याधिकरणकालावच्छिन्नस्य उपोदयप्रबन्धत्वात् । अन्त्ये पक्षविशेषणाप्रसिद्धि प्रलयासिद्धेरित्यनुमानदुषणम् । एव चात्रानुमाने कार्यद्रव्याधिकरणवृत्तित्वमात्रमुपाधिः पक्षविशेषणं न तु कार्यद्रव्यानधिकरणकालवृत्तित्वमपि अप्रसिद्धेरिति फक्किकार्थः । तथा च