पृष्ठम्:न्यायलीलावती.djvu/३०५

एतत् पृष्ठम् परिष्कृतम् अस्ति
२३२
न्यायलीलावती


न्यालालावतीप्रकाशः

 अत्र वदन्ति । समयसमवायिकारणातिरिक्तवृत्तिध्वंसप्रतियोग्यवृत्तिकार्यद्रव्यत्वं कार्यद्रव्यप्रागभावसमानकालीनारम्भकातिरिक्त कार्यद्रव्यानधिकरणवृत्तिध्वंसप्रतियोगिवृत्ति कार्य-

न्यायलीलावतीप्रकाशविवृतिः

सिद्धसाधनमिति भावः । अत एव कार्य्यद्रव्यानधिकरणेत्यादिरपि क्काचित्कः पाठः सङ्गच्छते । कार्य्यद्रव्यानधिकरणवृत्तित्वमात्रमत्र विशेषणमन्यथा सिद्धसाधनापत्तेरित्यर्थकत्वात् । तथा च पक्षविशेषणाप्रसिद्धिरिति भावादिति सङ्क्षेपः ।

 समयेति । अत्र महाप्रलयाङ्गीकारे धर्मिपक्षतायां महाप्रलयाव्यवहितकार्य्ये व्यभिचार इति धर्मपक्षता । आकाशवृत्तिध्वंसप्रतियोगित्वेनार्थान्तरवारणाय बाघस्फोरकं पक्षविशेषणम् । समयपदं च साधारणाधिकरणपरमतो नासिद्धिः । यथा च तथा सति न दिशाऽर्थान्तरं तथा प्रागेवोक्तम् । समवायिपदं च प्रकृतसमवायिपरमतो नोक्तदोषतादवस्थ्यम् । तादृशशब्दवृत्तित्वेनार्थान्तरवारणाय पक्षे द्रव्यपदम्। एक एव ध्वंसः समयाकाशोभयवृत्तिः स्यादित्यर्थान्तरतादवस्थ्यमतो नञ्वयगर्भता । महाप्रलयेनाऽर्थान्तरवारणाय कालीनान्तं ध्वंसविशेषणम् । कार्यपदद्रव्यप्रागभावपदयोर्विकल्पेनान्वय इति न व्यर्थता । कार्यपदं भावकार्य्यपरम् । प्रागभावे द्वव्यपदं विशेषणं महाप्रलयाव्यवहितकालेनार्थान्तरवारणाय । कार्य्यसमानकालत्वगर्भसाध्ये स्थूलकालावच्छेदेन समानकालत्वमभिप्रेतमिति । न तेनार्थान्तरं कार्यद्रव्यानधिकरणवृत्तित्वं च कालावच्छेदेन साध्यप्रविष्टमतो नेदानीं प्रागभावसमानकालीनेन महाग्रलयरूपकार्य्यद्रव्यानधिकरणवर्त्तिना च ध्वंसेनाऽर्थान्तरम् । कालीनेत्यन्तं वृत्तिविशेषणामत्यन्ये । कार्य्यद्रव्यानधिकरणत्वं कार्यद्रव्यसंयुक्ता भाववत्वं कपालेऽपीति तेनार्थान्तरवारणायारम्भकातिरिक्त्तेति । द्रव्यसमवायिकारणातिरिक्तत्यर्थः, तेन शब्दारम्भकत्वेऽव्याकाशस्य शब्दत्वे साध्यप्रसिद्धिरविकला। कार्यमात्रेति । मात्रपदमनन्तत्वे व्यभिचारवारणाय । न चैवमपि ध्वंसत्वे व्यभिचारः, भाववृत्तित्वेनापि विशे षणात् । न चैवमपि चरमक्रियात्वे व्यभिचारः नानाकालीनत्वेन कार्य्याविशेषणेऽपि महाग्रलयाव्यवाईत सगर्यि चत्रै शरीरवृत्तिजातौ