पृष्ठम्:न्यायलीलावती.djvu/३०७

एतत् पृष्ठम् परिष्कृतम् अस्ति
२३४
न्यायलीलावती


क्रमनाशे सिद्धसाधनम्, यौगपद्ये तु व्यभिचार इति चेन्न,


न्यायलीलावतीकण्ठाभरणम्

मिति शङ्कते - व्यभिचार इति । क्रमनष्टदहनपवनादावित्यर्थः । एकमिदं भूगोलकमित्येकत्वेन प्रतीयमानत्वादेकमेव इदमवयवि तदेव च पक्ष

न्यायलीलावतीप्रकाशः

केति । यद्यपि भूगोलकपदेन व्घणुकमारभ्यान्त्यावयाविपर्यन्तस्य प्क्षत्वे यदि साकल्योच्छेदः सकलोच्छेदप्रतियोगित्वं तदा बाधः अथैककालीन उच्छेदस्तदा भूगोलकसन्तानान्तरकालमात्रवृत्ति-

न्यायलीलावती प्रकाशविवृति:

कोपाधिः, न तु चरमक्रियात्वम् । न चासिद्धिवारकतया विभाजकेत्यादिवैयर्थ्यम्, कार्यत्वावच्छिन्नविभाजकोपाधिसमा ( ना?) धिकरणत्यन्ताभावाप्रतियोगित्वस्याखण्डाभावतया व्य र्थत्वाभावात् । अखण्डाभाववदखण्डोपाचावपि न वैयर्थ्यम् । अत एव प्रमेयत्वादिकं हेतुरित्यपि कश्चित् । एवंविवक्षायां च पक्षे कार्य्यपदोपादानं कार्यवृत्तितामादायैव पक्षे साध्यगमनमेतावन्मात्रविभावनार्थमिति दिक् । अन्त्यावयवीति । यद्यपि कर्मत्व एव साध्याव्यापकता तथापि अन्त्यावयविकर्म्मवृत्तितामादायैव कर्म्मत्वे साध्य. गमनमिति तदुत्कीर्त्तनम् । न च द्रव्यानारम्भकवृत्तिवृत्तित्व. मुपाधिः, आगमादिविपक्षबाधकेन हेतोः साध्यव्याप्यतया तदव्यापकत्वेनोपाधेः साध्याव्यापकत्वात् । एतच्चानुमानं सर्वमुक्तिमङ्गीकृत्य । वस्तुतो लीलावतीकारेण तदनङ्गीकारात्तमादायार्थान्तराप्रसङ्गेन प्रागभावसमानकालीनध्वंसविशेषणमपास्यैव साध्यं भावकार्य्यवृत्तित्वादित्येव हेतुः । अर्थान्तरप्रसङ्गस्तु बाधादेव निरस्तः । तत्स्फोरणार्थ कार्य्यद्रव्यप्रागभावसमानकालीन समयसमवायिकारणमात्रवृत्तिध्वंसप्रतियोगिमात्रवृत्तीति पक्षविशेषणमिति अत्यन्ताभावगर्भैव व्याप्तिरिति व्यापकेन व्यर्थविशेषणतेति मतेनेदमनुमानम् । अतो बहुविशेषणघटितत्वेऽपि साध्यस्य न व्यर्थविशेषणता । प्रलयसिद्धेरुद्देश्यत्वाच्च नार्थान्तरनिग्रहस्थानम् । आगमरूपविपक्ष बाधकसत्त्वाच्च नाप्रयोजकता । केचित्तु यथोक्तसाध्यं पक्षीकृत्य तव्घापकत्वेन कार्यद्रव्य-