पृष्ठम्:न्यायलीलावती.djvu/३०८

एतत् पृष्ठम् परिष्कृतम् अस्ति

न्यायलीलावतीकण्ठाभरण- सविवृतिप्रकाशोद्भासिता २३५ एवं सति तरुगिरिदहनपवनादिष्वपि संयोगादेकस्थूलबोधोपपत्तौ सर्वत्रावयविनोऽसिद्धिमाप्तेः । तदसिद्धावपि चैकसमुदायप्रत्ययगोचरत्वेन सावित्रतेजोवदुच्छेदसाधनात् । उच्छेदस्तु क्रमेण यौगपद्येन वाऽस्तु, किं तु साकल्येन साध्यः । न चासावेकदेशावस्थितौ सम्पद्यते । अनुपभुक्तसमस्तप्राणिकर्माणि युगपन्निरुद्धवृत्तीनि अनुपभुक्त (वि) चित्रकर्मत्वात् सुषुप्तिसम- न्यायलीलावतीकण्ठाभरणम् इति न सिद्धसाधनव्यभिचारावित्यत आह - एक (व?) मिति । अभ्युपेत्याह --- तदसिद्धावपीति । यथा सहस्रमपि सहस्त्रांशोरंशव एकदैव सायं तिरोभवन्ति तथा भूगोलकत्वेन व्यवह्नियमाणा अनेकेऽप्यवयविनो युगपदुच्छेत्स्यन्तीत्यर्थः । ननु भूगोलकसन्तानस्य नानावयवित्वे क्रमेणैवोच्छेदोऽस्तु दहनपवनादिवदित्यत आह --- उच्छेदस्त्विति । भूगोलकान्तरासमानकालीनो भूगोलकध्वंसः साध्य इत्यर्थः । एतदेवाह--न चेति । प्रलयेऽनुमानान्तरमाह - अनुपभुक्तेति । उपभुक्त कर्म्मणामनुपभुक्तकमयोगपद्येन वृत्तिवि (नि?) रोधो न सम्भवतीत्युक्तमनुपभुक्तेति । स्वफलाजनकत्वं वृत्तिनिरोधः स्वजन्यभोग- न्यायलीलावतीप्रकाशः त्वेऽप्युच्छेदानां न दोष इति न प्रलयसिद्धिः, तथापि भूगोलकसमतानोऽयं भूगोलक सन्तानानधिकरणवृत्तिध्वंसप्रतियोगी कार्यत्वाच्छव्दवदित्यत्र तात्पर्यम् । एकं भूगोलकमित्यवाधितानुभवादेकावयविसिद्धिः । अथ स न प्रमाणं तत्राह - एवं सतीति । क्रमेणोच्छेदे सिद्धसाधनं परिहरति - उच्छेदस्त्विति । युगपदिति | युगपत्सहकारिरहितानी- न्यायलीलावतीप्रकाशविवृतिः वृत्तित्वमनुमेयमतो न बहुविशेषणघटितत्वं साध्यस्येत्याहुः । उक्तविपक्षबाधकादेव चात्रैव तदन्यवृत्तित्वमुपाधिरिति ध्येयम् । तथापीति । अत्रापि पूर्ववदेव पक्षसाध्यविशेषणे द्रष्टव्ये । व्योमादिवृत्तिध्वंसप्रतियोगिवृत्तितया महाप्रलयेन बाधादेव नार्थान्तरमतो न तद्विशेषणमित्याहुः । कार्येति । भावकार्येत्यर्थ: । कुशलस्थेषु वीजेषु कालान्तरभाविस्वर्गजनकादृष्टेषु च युगपनिरुद्ध-