पृष्ठम्:न्यायलीलावती.djvu/३०९

एतत् पृष्ठम् परिष्कृतम् अस्ति
२३६
न्यायलीलावतीयवति


यवर्त्तिकर्मवत् न चैवम्भूतोच्छेदानुपलब्धेर्नैवम् । उत्पत्तेरनुपलम्भादनुत्पत्तिप्राप्तेः [१]स्वभावादेव चावयवित्वप्रस-


न्यायलीलावतीकण्ठाभरणम्

प्रतिबन्धकसमवधानं वा । विचित्रत्वं विजातीयफलजनकत्वम् । एवम्भूतेति । सिसाधयिषितोच्छेदानुपलब्धेरित्यर्थः । अनुमानादुपलब्धेरेव नानुपलब्धत्वम्, अन्यथा आद्यक्षणसत्तासम्बन्धस्य उत्पत्तेः प्रत्यक्षावेद्यत्वेन उत्पत्तिरपि न स्यादित्यर्थः ।

 यद्वा ननु पर्वतादेरुच्छेदो न दृष्ट इत्यत आह - न चेति । एवं स. त्युत्पत्तिरपि तेषां न दृष्टेति सापि न स्यादित्यर्थ: । ननु पर्वतादेरु त्पत्तिश्चेन स्यात्तदाऽवववित्वमपि न स्यादित्यत आह - स्वभावादेवेति ।

न्यायलीलावतीप्रकाशः

त्यर्थः । नन्वत्र साध्याप्रसिद्धिः प्रायश्चित्तनाश्यकर्मभिर्व्यभिचारश्च । दृष्टान्तश्च साध्यविकलः सुषुप्तावपि श्वासादिजनकादृष्टानिरोधात् । किञ्चानुपभुक्तपदमतीतकर्मव्यावृत्त्यर्थं तदयुक्तम् । अनुपभुक्तत्वं ह्युपभोगाजनकत्वम् । तच्च प्रायञ्चित्तनाश्यकर्मणामेवेति न प्रलयसिद्धि, यदा कदाचिदुपभोगाजनकत्वं च अतीतकर्मणामप्यस्ति । अपि चैतत्कालीनानां कर्मणां पक्षत्वे बाधः केषाञ्चिदुपभोगेनैवान्तरा नाशात्, प्रलयकालीनानां च पक्षत्वे आश्रयासिद्धिः । विचित्रपदं च व्यर्थम् । तस्मादेतत्कर्मातिरिक्तानि कर्माणि एतत्कर्मप्रतिबन्धकप्रतिबध्यानि कर्मत्वादेतत्कर्मवत् । प्रतिबध्यत्वं च कारणत्ववत् सामा न्येनैव रूपेणातीतस्यापि । यदा तत्प्रतिबन्धकं भविष्यति तदा सर्वकर्मप्रतिबन्धे अर्थात्प्रलयसिद्धिरित्येवंपरोऽयं ग्रन्थ इति सम्प्रदायविदः । ननुत्पत्तेरभावे कुतोऽवयविसिद्धिरित्यत आह—स्वभावादेवेति ।

न्यायलीलावती प्रकाश विवृतिः

वृत्तित्वं प्रसिद्ध मेवेत्यत आह - प्रायश्चित्तेति । ननु वृत्तिनिरोधयोग्यता साध्येत्यरुचेराह - दृष्टातश्चेति । ननु तदतिरिक्तादृष्टकूटस्यैव दृष्टान्ततेत्यरुचेराह - किं चेति । तच्चेति । तावन्मात्र निरोधसिद्धावपि प्रलयासिद्धिरित्यर्थः । अतीतकर्मणामिति । तथा च तेषामपि पक्षत्वे बाधो. ऽनुपयु (भु?)क्तपदव्यर्थता चेति भावः । नत्वनुपभुक्तत्वमजनितभो गत्वमतो नोकदोष इत्यरुचेराह - अपि चेति । अतीतस्थापीति । प्रतिब-


  1. ०नुत्पत्तेः।