पृष्ठम्:न्यायलीलावती.djvu/३१०

एतत् पृष्ठम् परिष्कृतम् अस्ति
२३७
न्यायलीलावतीकण्ठाभरण- सविवृतिप्रकाशोद्भासिता


ङ्गात् । घटादेरपि वा तथाभूतस्य नित्यतापत्ते : [१] । न च ब्रह्म वर्षशतनियमः प्रलयस्य पुराणप्रसिद्धेः । समयप्राचुर्येऽपि लक्षणपरत्वात् । तथा च कालविशेषस्य प्रत्यक्षादेरसिद्धौ आश्रयासिद्धि: [२] । आगमात्तत्सिद्धौ तु तेनैव बाधात् । कश्चितकाल इत्युपादाने सिद्धसाधनम् | सर्वपदोपादाने च विशेषणवैयर्थ्यम् ।


न्यायलीलावतीकण्ठाभरणम्

उत्पत्ति विना अवयविस्वभावा एव महीधराः स्युरित्यर्थ: । ननु अवयवित्वेनानुभूयमानानां पर्वतादीनामनुत्पन्नत्वे घटादयोऽपि तथा स्युरित्यत्रेष्टा पत्तिमाह--घटादेरिति । सत्प्रतिपक्षानुमानं दूषयाते - न चेति । तथा च पक्षत्वाभिमतकालस्यावच्छेदकतया ब्रह्मवर्षशतमितत्वं यदुपात्तं तदभावादाश्रयासिद्धिरित्यर्थः । पुराणं कथमीदृशमत आह-- पुराणेति । एवं सति यद्भवति तदाह — तथा चेति । सत्प्रतिपक्षानुमाने पक्षानिरुक्त्या आश्रयासिद्धिरित्यर्थः । तेनैवेति | प्रलयस्याऽप्यागमप्रतिपाद्यत्वेन तदभावलाधने बाध इत्यर्थः । सिद्धसाधनमिति । इदानीन्तनकालेनेति शेषः । सर्वेति प्रलयकालसङ्ग्रहार्थमेव तदुपादानात् ।

न्यायलीलावतीप्रकाशः

न च ब्रह्मेति । आदित्यक्रियानिरूप्याहोरात्रादिघटितत्वाद्वर्षाणामित्यर्थः । तथा चेति । वर्षशतनियमाभावे सतीत्यर्थः । 'प्रत्यक्षादे' प्रमाणादि-

न्यायलीलावतीप्रकाशविवृतिः

म्धयोग्यताया एव साध्यत्वादिति भावः । सर्वकर्मणां 'प्रतिबन्धे' प्रतिबन्धस्वरूपयोग्ये । सम्प्रदायविद इत्यस्वरसविभावनम् । तद्वीजं तु एककालीनानि कर्माणि निरुद्धवृत्तीनीत्येवमण्यनुमाने पक्षताववच्छेदकमहिम्नैव प्रलयसिद्धेः कृतं गुरुणा प्रकारान्तरणेति । ब्रह्मवर्षशतमिति गणित [३] भेदगम्य इत्याद्यनुमानदूषणाय मूलं न च ब्रह्मेति । षष्ठीभ्रमं निवारयति -प्रमाणादिति ।


  1. ०तापत्तिः ।
  2. ० सिद्धेः ।
  3. गमितमे ।