पृष्ठम्:न्यायलीलावती.djvu/३११

एतत् पृष्ठम् परिष्कृतम् अस्ति
२३८
न्यायलीलावती


तत्संग्राह्यप्रलय समयाप्रतीतेः । प्रतीतौ [तु] बाधात् । एतद्धाधकवलेन वर्णव्यवस्थापि आरणेयसन्ततिवदिति [ प्रलयः ] ।


न्यायलीलावतकिण्ठाभरणम्

स च न सिद्ध इति सर्वपद वैयर्थ्यमित्यर्थः । एतदेवाह - तदिति । एतद्वाधकबलादेवेति । अत्यन्तोच्छेदस्य दृढतरप्रमाणसिद्धतया सर्गादौ ब्राह्मणाभावात्तत्कालीन आद्यो ब्राह्मणोऽवश्यमदृष्टविशेषोपगृहीतभूतभेदारभ्यः स्वीकार्यो यथा वृश्चिकस्य वृश्चिक पूर्वकत्वेऽपि गोमयादाद्य इत्यर्थः । प्रलयेऽनुमानम्, – परमाणुः कार्य्यद्रव्य समानकालीनपरमाणुक्रियातिरिक्त क्रियावान् मूर्त्तत्वात् घटवत् । न चैतदन्यगुणवत्त्वमुपाधिः पक्षेतरतुल्यत्वात् । यद्वा एते परमा णवः कार्य्यद्रव्यानधिकरणवृत्तिकार्यवन्तः नित्यद्रव्यत्वात आकाशवत् । न च कार्य्यद्रव्यानधिकरणत्वमुपाधिः साध्यव्याप कताग्राहकमानाभावेनातुल्ययोगक्षेमत्वात् । प्रलयानन्तरं सर्गसिद्धये विशिष्टसाधनायानुमानं समयसमवायिकारणातिरिक्तवृत्तिध्वंसप्रतियोग्यवृत्तिकार्यद्रव्यत्वं कार्य्यद्रव्यप्रागभावसमानकालीनारम्भकातिरिक्त कार्य्यद्रव्यानाधिकरणवृत्तिध्वंसप्रतियोगिवृत्ति कार्यवृत्तिधर्म्मत्वात् शब्दत्ववत् । न च विभुवृत्तिवृत्तित्वमुपाधिः, अन्त्यावयविकर्म्मत्वे साध्याव्यापकत्वादिति ।

न्यालालावतीप्रकाशः

त्यर्थः । असति बाधक इति प्रागुक्तं दूषयति - एतद्बाधकेति ।

 नन्वीश्वरो द्रव्यान्तरम् । तथा हिज्ञानवत्त्वेन पृथिव्याद्यष्टभेदसि द्धावीश्वरो नात्मा दुःखात्यन्ताभाववत्त्वात्, घटवत् । न चेश्वरात्मत्वसाधकानां ज्ञानवत्वादीनां भूयस्त्वाद्वलवत्वमिति वाच्यम्, व्यातिपक्षधर्मते हि बलं न तु भूयस्त्वमपि, ते च तुल्ये एवेत्येकेनैव भूयसामपि प्रतिबन्धात् । किञ्च अनात्मत्व साधकानामेव भूयस्त्वम्, ज्ञाना-

न्यायलीलावतीप्रकाशविवृतिः

 अप्रसक्तप्रतिषेधमाशङ्कयाह - नन्विति । नन्वन्यतरत्वेन व्याप्तिपक्षधर्म्मतान्यतरभङ्गकल्पनायां प्रसक्त्तायां लाघवप्रतिबन्धकत्वेन भूयस्त्वमप्यपेक्षितमेव । तदुक्तमस्माकं स्वल्पंवो बहवश्चेत्यरुचेराह - किं चेति निर्दुखत्वेऽतिव्यापक