पृष्ठम्:न्यायलीलावती.djvu/३१२

एतत् पृष्ठम् परिष्कृतम् अस्ति
२३९
न्यायलीलावतीकण्ठाभरण- सविवृतिप्रकाशोद्भासिता


 ईश्वरो न द्रव्यान्तरं, प्रमाणाभावादसिद्धेरित्येके । तन्न । विवादाध्यासितं सकर्त्तृकं कार्यत्वात् घटवदित्यनुमानस्य स-

न्यायलीलावतीकण्ठाभरणम्

 सृष्टिसंहारावीश्वाधीनाविति तदनन्तरमीश्वरस्य निरूपणीयत्वेन ज्ञानवत्त्वादष्टद्रव्यभिन्नत्वं सुखानधिकरणत्वाच्चात्मभिन्नत्वमस्येति दशमद्रव्यमीश्वर इति कुतो नवैवेत्याक्षेपे यदींश्वरो ध मीं सिद्ध्येत्तदा नवभिन्नद्रव्यत्वमस्य सम्भाव्येत । णाभाव इति केषां चिन्मतं दूषयति – तन्नेति । विवादाध्यासितमिति सक-

न्यायलीलावती प्रकाश:

दित्रयस्यात्मत्वसाधकत्वात् सुखादिषट्काभावषट्कस्यानात्मत्वसाधकत्वात् । न च निर्दुःखत्व मनात्मत्वव्यभिचारि निर्दुःखत्वव्यापकत्वात्, प्रमेयत्ववदिति वाच्यम्, निर्दुःखत्वं न तथा निर्दुःखमात्रवृत्तिधर्मत्वात् पटत्ववदिति प्रतिरोधादित्याक्षेपे ईश्वरसाधकमानाभावाद्धर्म्यसिद्धौ कस्य भेदः साध्य इति कस्यचित्परिहारं दूषयति--- तन्नेति । विवादेति । सकर्त्तृकत्वासकर्त्तृकत्वविवादपदमित्यर्थः । तच्च यद्यव्येक्रमवच्छेदकं विना दुर्ग्रहं न च तृथाविध संशयविषयत्वमेव तथा तद्ग्रग्रहेऽपि तदनुयोगापत्तेः, वादिनोर्निश्चितत्वेन तदसम्भवा च्च । न च वाघुत्थापितमानाभ्यां मध्यस्थस्य तत्सम्भवः तस्यापि निश्चयवत्त्वात् । न चाहार्यसंशयसम्भवः अन्योन्याश्रयात् । वाधनुमानप्रवृत्या तत्संशयविषयत्वं तत्संशयविषयत्वेन वाद्यनुमानवृत्तेः, तथाप्युपादानगोचरजन्य कृत्य जन्य जन्यत्वमेव पक्षतावच्छे-

न्यायलीलावतीप्रकाशविवृतिः

त्वस्या [१] भेदेऽध्यक्षतेरिति भावः । निर्दुखेति । निर्दुःखान्यावृत्तित्वादित्यर्थः । अन्योन्याश्रयादिति । यद्यप्याहार्थ्यसंशये न वाधनुमानापेक्षा तस्येच्छामात्रप्रभवत्वात् । तथापि तस्यानुमानानिचर्त्त्य- त्वेन तदनङ्गतयाsनावश्यकत्वमिति स्वारसिकस्तथा वक्तव्यस्तथासतीदं दूषणमिति भावः । तथापीति । अत्रोपादानपदं स्वोपा दानपरमन्यथा शब्दाद्यव्याप्तेः । न चाप्रसिद्धिः, ताशकृतिजन्या-


  1. कत्वेऽस्याभे ।