पृष्ठम्:न्यायलीलावती.djvu/३१७

एतत् पृष्ठम् परिष्कृतम् अस्ति
२४४
न्यायलीलावती


न्थायलीलावतीप्रकाशः

यतया सिद्धविष्रथं प्रत्यक्षमपि हेतुः मृदवयवानां सस्थानविशेषस्य कृतिसाध्यष्साधनत्वेन ज्ञानेऽप्यवयवगोचरप्रत्यक्षं विना कृत्यनुत्पत्तेः । न चैवमपि तत एवायुमितिरपीश्वरे सिघ्घेत्‌ । स्वसुखादिसाधनत्वानुमितावीश्वरस्य बाधात्‌ । अन्याददयाश्चानुमितेर्जनकत्वादर्शनात्‌ । उपादानस्य सिद्धत्वेऽप्युपादेयवत्त्वेनासिद्धत्वान्न तत्र चिकीर्षाविरोधः। ननु ज्ञानेच्छाकतीनाममभावान्न क्कचित्कायीभावः, किन्त्वैकेकामावात्‌ । तथा च व्यथैविदाषणत्वेन त्रिततयव्यतिरेको न हेतुव्यतिरेकथ्याप्य इति न हेतोस्त्रित्तयसिद्धिः साभ्याभावभ्यापकाभावप्रतियोगिन एव साध्यगमकत्वात्‌ । मैवम्‌ । यत एवैकैकव्यतिरेकात्

न्यायलीलावतीप्रकाश्चविवृतिः

धनं वीणदेरपि शब्दराधिकरणत्वादिति वाच्यम्‌ , मिलितानां ज्ञानादीनां स्वविषयसमवेतकार्यं प्रत्येव जनकतया तत्र त्रितयाज्ञन्यत्वात्‌ । न चैवं पक्षीभूतध्वंसे बाधस्तस्यासमवेतत्वादिति वाच्यम्‌ , भावरूपकार्यत्वावचच्छेदेन स्वविषयसमवेतं प्रत्येव जनकत्वामिति नियमादभावङूपकारर्ये त्वन्याद्दशेऽपि मिदितानां तेषां जनकत्वात्‌ । यत्तु अनित्यानामेवैतेषां तथा नियम इति नित्यानां तेषां ध्वंसजनकतया न बाध इति तद्युक्तम्‌ । एवं सत्यपक्षीकृते धटादिष्वंसे व्यभिचारापत्तेः । न च ध्वंखमात्रस्यैव पक्षत्वादिदमयुक्तमिवि बाच्यम्‌ , तथा सति ध्वसे व्यभिचार द्दत्येव विरोधात्‌ पक्षे अ्थभिचास्याशङ्कितत्वात्‌ । न च घटादिध्वंसस्यापि नित्यज्ञानज्न्यतया पक्षसमत्वदेव न व्यभिचार इति वाच्यम्‌, तन्मताक्ष्रयणे क्षितिमात्रपक्षतायामेव स्वास्थ्यादनुगतपक्षतावक्छेदकनिरूक्क्तिप्रयासवैफल्यादिति दिक्‌ । स्वसुखेति । यद्यीष्टसाघन तानुभितेरेव हेतुत्वमन्यथाऽनञुगमादिति भगवादिच्छाविषयत्वाद्विश्वस्य नेष्टलाघनतानुमितेस्तत्रासम्मावना तथापि नेष्टसाधनतानुमितित्वेन हेतुता किं न्त्विष्टसा घनतज्ज्ञानत्वेनेति उपादानप्रत्यक्षस्य तत्रावश्यकतयेष्टसाधनताक्ञानमपि तदेव कल्प्यते न तस्वसुमितिरूपं गौरवादिति भावः । उपादनस्येति । अत एव कृतेरपि तदुभयविषयत्वमिति भावः । साध्यामावेति । केवरान्वयी च नास्त्येवेति भावः । यत एवेति । तथा च मत्येकजन्यत्वपेव साध्यं समूदालम्बनदूपा च।लुमिति स्त्रितयगोच-