चेन्न, व्यापकानुपलम्भस्यानुमानतया बाधमुपक्रम्य सत्प्रति पक्षतामापादयतोऽभुक्तवान्तिप्रसङ्गात् । शरीरिकर्त्तृसाधनादभिमतविशेषविरुद्धो हेतुरिति चेन्न, कार्यत्वस्यानुपलब्धव्यभिचा रसाहचर्यबलेन वा विपरीतविशेषसाधकत्वं, तथाभूतविशेषप्रतिबन्धबलेन वा । नाघः । उत्कर्षसमत्वात् । द्वितीये तु स्वसिद्धाविनाभावबलेन [वा] परसिद्धाविनाभाववलेन वा । नाद्यः ।
न्यायलीलावतीकण्ठाभरणम्
धयेत् । तथा च सत्प्रतिपक्षोऽयं न बाध इति दूषणान्तरोद्भावने निरनुयोज्यानुयोग इत्यर्थः । ननु कार्य्यत्वाद्धेतोः शरीर्य्येव कर्त्ता सिध्येत् तादृशेनैव व्याप्तिग्रहात् । तथा चाभिमताशरीरिकर्त्तृविरोध इत्याह – शरीरीति । साहचर्य्यमात्रपुरस्कारेण दृष्टान्तदृष्टशरीरिकर्तृत्वापादनादुत्कर्षसमा जातिरविनाभावस्य सुसिद्धत्वे क्षितिरपि त्वन्मते शरीरिकर्त्तृकेति तवापसिद्धान्तो वैशेषिकैश्च नैतादृशी व्याप्तिः स्वीक्रियते कार्यत्वसकर्त्तृकत्व सामान्य योरेव व्याप्तौ बाधकाभावादित्याह – कार्यत्वस्येति । ननु यद्यपि त्वया नेयं व्याप्तिरभ्युपगम्यते तथापि सहचारदर्शनव्यभिचारादर्शनवलायाता व्याप्तिरवश्यमभ्यु-
न्यायलीलावतीप्रकाशः
च्चाग्रे निरस्यमित्याह - व्यापकेति । ननु सर्वज्ञाशरीरनित्यज्ञानादिः कर्ता पक्षे विवक्षितः, घटादौ च कार्यत्वस्य तद्विपरीतकर्तृसहचारदर्शनात्तादृशः साध्यः । तथा चोभयोर्विशेषयोर्विरोधो विशेषविरोध इत्याह - शरीरीति | हेतोर्विवक्षितसाध्यविपरीतसहचारमात्रान्न तत्साधनमनुमानमात्रोच्छेदादित्याह - उत्कर्षेति । साहचर्य मात्र पुरस्कृतगमकत्वयोर्हेतु साध्ययोरन्यतरेण पक्षदृष्टान्तान्यतरास्मिनविद्यमानधर्मप्रसञ्जनमुत्कर्षसम इति न्यायपञ्चमाध्याये व्यक्तम् । न शरीरिकर्तृकत्वेन कार्यत्वस्य व्याप्तिस्त्वयाभ्युपगम्यते यतो विपरीतसाधनाद्विरो-
न्यायलीलावतीप्रकाशविवृतिः
स्मेतोपनेययोः शरीरित्वाशरीरित्वयोर्विरोधमाशङ्कते-ननु सर्वज्ञेति ।