पृष्ठम्:न्यायलीलावती.djvu/३२०

एतत् पृष्ठम् परिष्कृतम् अस्ति
२४७
व्यायलीलावतीकण्ठाभरण- सविवृतिप्रकाशोद्भासिता


अपसिद्धान्तात् । नेतरः । परस्यासिद्धेः । परं प्रति साधितेन नियमेनेति चेन्न, प्रमाणेन तत्साधनेऽपसिद्धान्तात् । अप्रमा णेन साधनानुपपत्तेः ।साध्यव्यापकत्वेन साधनाद्विरोध इति चेन्न, अनपेक्षितविशेषस्य शरीरित्वनियमेन तादृशसाध्ये पक्षधर्मताविरोधात् । तदविरोधस्य चानुमानाङ्गत्वात् । अन्यथा


न्यायलीलावतकण्ठाभरणम्

पगन्तव्येत्यत आह - परमिति । प्रामाणिकी व्याप्तिरप्रामाणिकी वा । आद्ये तवापसिद्धान्तोऽन्त्ये किमनया व्याप्तयेत्याह – नेति । ननु कार्यत्वेन शरीरकर्त्तृत्वं मासैत्सीत् कार्यत्वासद्धेन सकर्त्तृकरवेनैव शरीरिकर्त्तृकत्वं साघनीयमिति शङ्कते - साध्येति । यथा कार्य्यत्वेन साध्यमानं शरीरिकर्त्तृकत्वं पक्षधर्म्मता न सहते, तथा सकर्त्तृकत्वेनापि साध्यमानं तत् पक्षधर्म्मताविरोधान्न सिघ्घतीति परिहरति - अनपेक्षितेति । अनपेक्षितो विशेषोऽसर्वज्ञपूर्वकत्वम् । तदविरोधस्येति । व्याप्तिपक्षघर्भ्भतयोः सम्भूय कार्यजननादित्यर्थः । अन्यथेति । यदि सकर्तृकत्वव्यापकमसर्वज्ञपूर्वकत्वं तदा कार्य्यत्वात् स्वव्यापकव्यापकस्यासर्वज्ञपूर्वकत्वस्यैव त्वन्मतेऽपि सिद्धिः स्यादित्यर्थः । व्याप्यव्याप्यस्य सुतरां व्याप्यत्वादिति भावः । ननु व्याप्तिबलायातपक्षधर्म्मतावलायातयोर्वस्तुनोर्न विरोधं ब्रूमः, अपि तु तदुभयोपस्थाप-

न्यायलीलावतीप्रकाशः

धः स्यादित्याह — अपसिद्धान्तादिति । परस्येत्यत्राऽध्यपसिद्धान्तादित्य नुषञ्जनीयम् । ननु यद्यपि कार्य्यत्वशरीरिकर्तृकत्वयोर्न व्याप्तिः, तथापि सकर्तृकत्वव्याप्यात्तत्सिद्ध्यत् स्वव्यापकं शरीरिकर्त्तृकत्वमपि साधयति । तथा च तेनाभिमतविशेषस्य विरोधः स्यादित्याह- साध्यव्यापकत्वेनेति । कार्यत्वात् सकर्तृकत्वसिद्धौ न शरीरिकर्तृकत्वमपि सिघ्घति तेन पक्षधर्मताया विरोधात् व्यातिपक्षधर्मतयोश्च सम्भू यानुमापकत्वादित्याह- अनपेक्षितेति । परस्यानपेक्षितो वशेषः कर्त्तृरूपस्तस्येत्यर्थः । ननु दर्शनबलप्रवृत्तव्याप्त्या शरीरी कर्त्तोपनेयः पक्ष-

न्यायलीलावतीप्रकाशविवृतिः

उपनेयद्वारोपनायकव्याप्तिपक्षघर्मतयोर्वि (रो?) धमाशङ्कते - ननु दर्शनेति ।