पृष्ठम्:न्यायलीलावती.djvu/३२१

एतत् पृष्ठम् परिष्कृतम् अस्ति
२४८
न्यायलीलावती


परस्य मतेऽप्यसर्बज्ञ कर्त्तृकत्व सिद्धेदुर्वारत्वात् । नापि व्याप्तिपक्षधर्मत योरनीश्वरेश्वर कर्त्तगोचरयोर्विरोधाद्विशेषविरोधः । सामान्यव्याप्तेर्विशेषविषयया [१] पक्षधर्मतयाऽविरोधात् । बिशेपण्याप्तेश्चानुमानङ्गत्वात् ।

 नाप्यर्थाक्षिप्त विशेषविरोधात्साध्यबाधो विशेषविरोधः ।


न्यायलीलावतीकण्ठाभरणम्

कयोव्र्व्याप्तिपक्षधर्म्मतयोरेव विरोधमाचक्ष्मह इत्यत आह - नापीति । भवेदेवं यदि कार्य्यत्वस्यासर्वज्ञकर्त्तृकत्वेन व्याप्तिरभ्युपगता स्यात्, किन्तु सकर्त्तृकत्वमात्रेण व्याप्तात् कार्यत्वाद्धेतो: पक्षधर्मताबलादभिमतविशेषसिद्धिरिति क्व विरोध इत्यर्थः । विशेषव्याप्तेरिति । कार्यत्व स्य विशेषेण शरीरिकर्त्तृकत्वेन त्वया मया वा व्याप्तिरेव नेष्यते या प्रकृतेऽनुमानाङ्गं स्यादित्यर्थः । पूर्वं शङ्कितमपि दूषणान्तराभिधानाय पुनः शङ्कते - नास्पतीति । आक्षिप्तेन शरीरिकर्त्तृकत्वेन विरोधस्तदा स्याद्यदि पक्षे तदाक्षपकं किञ्चिद् भवेत्तदेव तु नास्तीति परिहारार्थः ।

न्यालीलावतीप्रकाशः

धर्मतया चाशरीरी, तथा चोपनेयविशेषयोर्विरोधेनान्योन्यसह कारिभावविरहान्नानुमानमित्याशङ्कय निराकरोति - नापीति । शरीरिकर्तृजन्यत्वेन व्याप्त्यभावात् कर्तृजन्यत्वव्याप्तेश्च पक्षधर्म ताबललभ्यविशेषाविरोधादित्यर्थः । केवलव्यातिपक्षध मनयोश्च न तथा च निरपेक्षतादशायां विशेषानुपस्थानादेव न वि. रोधज्ञानं सापेक्षतादशायां च सहोपलम्भनियमादेवेति भावः । नाप्यर्थाक्षिप्तेति । अर्थाक्षिप्तो विशेषः शरीरित्वादिस्तेन साध्यस्य प क्षघर्मता बललभ्यविशेषस्य शरीरत्वस्य बाध इत्यर्थ: । पूर्ब्वं साध्यव्यापकत्वेनेत्यत्र कार्यत्वेन सकर्त्तृकत्वं सिद्ध्यत् कर्तुः शरीरित्वमादायैव सिद्ध्यतीत्युक्तम् । अधुना सिद्धेन सकर्तृकत्वेन साध्ये कर्त्तरि शरीरित्वं साधनीयमित्यपौनरुक्त्यम् । साध्ये पक्ष इत्यर्थः ।


  1. विशेषविषयतयाप ।