केन पुनः साध्ये शरीरादिमत्कर्त्तृकत्वमाक्षिप्तम् । कर्त्तृमत्त्वेनेति चेत्, अप्रतीतेन मतीतेन वा । नायः । अप्रतीतस्यानाक्षेपकत्वात् | प्रतीतेस्तु साधनस्य निर्दोषत्वमन्तरेणानुपपत्तेः ।
पराभ्युपगमसिद्धेन तदाक्षिप्तमिति चेन्न, तस्य व्यापकानुपलम्भस्वभावत्वेन सत्प्रतिपक्षनिक्षेपात् । ननु दृश्येन कर्त्रा
व्याप्तिर्गृह्यते दृश्यादृश्यसाधारणेन वा नाद्यः । विटपादीनां [१]
व्यभिचारात् । नेतरः, तथाभूतस्य व्यतिरेकग्रहे प्रत्यक्षस्यासा-
न्यायलीलावतीकण्ठाभरणम्
तदेव विवेचयति - केनेति । सिद्धं सकर्त्तृकत्वमाक्षेपकं वाच्यं तत्सिद्धिस्तु कार्यत्यादेव हेनोरिति सिद्धं नः समीहितमित्यर्थ । पूर्वं शरीरिकर्तृकत्वस्य पक्षवर्मताबललभ्यत्वमिदानीमाक्षेपलभ्यत्वं पुरस्कृत्येत्यपौनरुत्तय मित्यप्याहु । परेति। त्वसिद्धेनेत्यर्थः । कर्त्ता शरीर्य्येव पक्षे च तादृशो नास्तीति कर्त्तापि न स्यादिति व्यापकानुपलव्धिविरोधमेव विशेषविरोधं ब्रूस इति शङ्कार्थः । नायं विरोधोऽपि तु सत्प्रतिपक्ष एच। तथा हि क्षितिर्न सकर्त्तृका शरीराजन्यत्वादिति । स वाग्रे निरसनीय इत्याह - तस्येति । विटपादाविति । अङ्कुरादौ कार्य्ये साध्यस्याभावान्न हि तत्र दृश्यः कर्टेत्यर्थः । तथा भूतस्येति । अयोग्यस्य साध्यस्य व्यतिरेकात् कार्यत्वव्यतिरेकः कुत्र सिद्धो येनान्वयव्यतिरेक्यनुमान स्यादित्यर्थः । आकाशादाबुपादानाभावादुपादानाभिज्ञव्यतिरेकः कार्य्यत्वव्यतिरेकश्च सुग्रह इति चेत्, न, निरुपादा-
न्यालालीवतीप्रकाश.
तस्येति । आक्षिप्तशरीरिकर्तृवावरूपस्य विशेपविरोधस्येत्यर्थः । तथापि कर्तृत्वाशरीरित्वयोर्विरोधेनैकघर्म्य समावेशात् कथमशरीरिकतसिद्धिः । मैवम् । उपसंहारस्थानस्यैकस्याभावात् स्वाश्रयस्थितयोश्च विरोधे उभयोरुच्छेदापत्तेः । भावे वा धर्मिग्राहकमानेन तयोर्विरोधापहारादिति [२] भावः । तथाभूतस्येति । हेत्वभवि साध्याभावव्यापकत्वस्य प्रत्यक्षेणायोग्यत्वादग्रहेऽन्वयव्यतिरेकीदमनु