पृष्ठम्:न्यायलीलावती.djvu/३२३

एतत् पृष्ठम् परिष्कृतम् अस्ति
२५०
न्यायलीलावती


मर्थ्यात् । सामर्थ्य वा विटपादिना व्यभिचारात् । किं च साधारेणनापि [ रूपेण ] व्याप्तिं गृह्णदध्यक्षं देशकालव्यवधानादृश्यमेव विषयीकरोति न स्वरूपादृश्यं, स्वरूपादृश्ये प्रत्यक्षस्यासामर्थ्यात्, सामर्थ्ये तु धूमस्यापि जठर्यसाधारणकृशानुजातीयमात्रेण व्याप्तिः स्यात् । उच्यते । कार्यत्वसकर्तृकत्वयोरनुपाधिनाऽ-


न्यायलीलावतीकण्ठाभरणम्

नत्वस्योपाधित्वात् । न च साधनव्यापकता क्षित्यादावेव साधनाव्यापकतासन्देहात् मैत्रतनयत्वस्येव सोपाधित्वसम्भवात् । सामर्थ्य वेति । विटपादावहश्योऽपि कर्त्ता प्रत्यक्षेनोपलभ्येत न चोपलभ्यतेऽतो व्यभिचार इत्यर्थः । ननु सामान्ययोरेव व्याप्तिर्न तु विशिघ्य योग्ययोरित्यत आह - किं चेति । 'स्वरूपादृश्य'मतीन्द्रियम् । ननु कुत एवमित्यत आह - स्वरूपेति । व्याप्तिः स्यादिति । प्रत्यक्षगम्येतिशेषः । कार्यत्वेति । दृश्यद्वयं व्याप्तिग्रहस्थानं तदुपष्टम्भेनादृत्र्ययोरपि सामा-

न्यायलीलावतीप्रकाशः

मानं न स्यादित्यर्थः । न च व्योमादावुपादानाभावादेवोपादानगोचरज्ञा (ना?) दिजन्यत्वाभावे ज्ञाते कार्यत्वाभावस्य व्यापकत्वं ज्ञायतामिति वाच्यम्, निरुपादानत्वस्योपाधित्वात् । न च साधनव्यापकत्वादयमनुपाधिः क्षित्यादावुपादानगोचरज्ञानादिजन्यत्वसन्देहेन सन्दिग्धसाधनाव्यापकत्वात् तादृशस्योपाधेर्मेंत्रातनयत्वादौ दूषणत्वात् । वस्तुतो नित्यज्ञानादिमतोऽन्वयोऽपिन गृह्यत इति मन्तव्यम्। सामर्थ्ये त्विति । यत्र धूमात् प्रत्यक्षवह्निस्तत्राप्रत्यक्षोऽपि सिद्ध्येत् ।

न्यायलीलावती प्रकाश विवृतिः

न च साधनेति । साधनमत्र व्यतिरेकव्याप्तौ व्यायं उपादानगोचरज्ञानादिजन्यत्वाभावरूपम् । मैत्रतनयत्वादाविति । यद्यपि तत्र साधननिश्चय उपाधिसन्देहोऽत्र तूपाधिव्यतिरेकनिश्चये साधनसन्देह इति वैषस्यम्, तथापि साधनव्यापकतासन्देहो विशिष्ट एवेति भावः । ननु मैत्रतनयत्वादौ विपक्षबाघकाभावादस्तूपाघिसन्देह इह त्वन्वयव्याप्तिरन्वयव्यतिरेक कव्यभिचारशङ्कानिवर्त कानुमानतर्करूपत्वान्न तथेत्यरुचेराह-वस्तुत इति । ज्ञावादिमत इति मतान्तरमाश्रित्य । वस्तुतो