पृष्ठम्:न्यायलीलावती.djvu/३२४

एतत् पृष्ठम् परिष्कृतम् अस्ति
२५१
न्यायलीलावतीकण्ठाभरण- सविवृतिप्रकाशोद्भासिता


न्वयेन प्रतिबन्धावधारणात्, कार्यकारण[ भाव ] योरिव । अन्यथा कार्य्यमात्रस्य कारणमात्रेण प्रतिबन्धावधारणेऽपि परोदीरितदूषणकलापः सम्भवत्येव । कार्यस्याहेतुकत्वे कादाचित्कत्वं न स्यादिति विपक्षे बाधकात्तत्र प्रतिबन्धग्रहो न त्वन्वयव्यतिरेकाभ्या-


न्यायलीलावतीकण्ठाभरणम्

न्यलक्षणाप्रत्यासत्त्या व्याप्तिर्ग्रहीतुं शक्यैवेत्यर्थः । अन्यथा तवापि कार्य्यत्वसहेतुकत्वयोर्व्याप्तिर्न गृह्ये तेत्याह - कार्य मात्रस्येति । ननु कार्य्यत्वसहेतुकत्वयोरन्वयव्यतिरेकाभ्यामेव व्याप्तिग्रहं न ब्रुमः, अपि तु विपक्षबाधकसहकृताभ्याम्, प्रकृते तु विपक्षबाधकं नास्तीत्याह---- कार्य्यस्येति । न त्वन्वयव्यतिरेकाभ्यामिति । केवलाभ्यामिति शेषः ।

न्यालीलावतीप्रकाशः

तथा च योग्यायोग्यवह्निसंशये योग्यवह्नयर्थी निःशङ्को न प्रवत्तेतेत्यर्थः । अनुपाधिनेति । ननु योग्योपाधेर्योग्यानुपलम्भेनाभावनिश्चयेऽध्ययोग्योपाधेरभावः कुतो ग्राह्यः । न च साध्यव्यापकस्य साधनव्यापकत्वसाधनात् साधनाव्यापकस्य साध्याव्यापकत्वसाधनाद्राह्यः। अनुमानेन तत्साधने तत्राप्ययोग्योपाधिशङ्काग्रासादनवस्थानात् । अत्राहुः । ज्ञानादिविशेषकार्यविशेषयोरन्वयव्यतिरेकग्रहो बाधकं विना ज्ञानादिमात्रकार्यमात्रयोर्व्याप्तिग्राहकः न तु पक्षधर्मताबललभ्यविशेषान्वयव्यतिरेकग्रहोऽनुमानमात्रोच्छेदात् पर्वतीयवह्नेरन्वयव्यतिरेकाग्रहात् । न चान्याऽन्वयव्यतिरेकग्रहादन्यव्याप्तिग्रहेऽतिप्रसङ्गः, यद्विशेषयोरन्वयादिग्रहस्तत्सामान्ययोर्बाधिकं विमा व्याप्तिग्रहात् । कार्यकारणयोरिवेति । दृश्यादृश्यौदासीन्येनेत्यर्थः । कार्यमात्रस्येति ।

न्यायलीलावती प्रकाशविवृतिः

ज्ञानादेरित्यत्र तात्पर्यम् । तथा चान्वयव्याप्तिरप्यसिद्धैवेति भावः । यत्रैव 'यज्जातीये' । 'तत्रैव' तजातीये । ज्ञानादीति । येन रूपेणोपस्थितयोर्ययोरन्वयव्यतिरेकग्रहो बाधकं विना तदवच्छेदेन कार्यत्वकारणत्वयोर्ग्रहात्। न चाहश्यवह्निसिद्धिप्रसङ्गः । तत्र ततो धूमानुत्पत्तेर्वह्निविशेषत्वेनैव हेतुत्वग्रहादिति प्रघट्टकार्थः । न त्विति । न तु नव्वभावभ० । भा