पृष्ठम्:न्यायलीलावती.djvu/३२५

एतत् पृष्ठम् परिष्कृतम् अस्ति
२५२
न्यायलीलावती


मिति चेन्न, अहेतुकत्वस्याकादाचित्कत्वेन प्रतिबन्धासिद्धेः । व्यभिचारानुपलम्भेन तत्सिद्धिरिति चेत्, न ।

सर्वादृष्टेश्च सन्देहात्स्वादृष्टेभिचारतः ।
योग्यादृष्टेरसद्भावात् [१] प्रतिबन्धो न सिद्ध्यति ॥

न्यायलीलावती कण्ठाभरणम्

विपक्षबाधकतर्कमूलभूतव्याप्तावपि विपक्षबाधकं किमपि नास्तीत्याह - अहेतुकत्वस्येति । तथा च न विपक्षबाधकतर्कापेक्षावश्यकी किन्त्वन्वयव्यतिरेकाव्यभिचारमात्रेण तद्ग्रह इति भावः । नन्वाकाशादावहेतुके दृष्टं सर्वत्राकादाचित्कत्वं सहेतुके तु न दृष्टमिति प्रतिबन्धसिद्धिरित्याह - व्यभिचारेति । व्यभिचारानुपलम्भो न सर्वेषां प्रमितो यदि केनविदिह व्यभिचार एवोपलब्धः स्यात् पार्थिववत्वलौहलेख्यत्वयोरिवेत्याह — सर्वोत । ननु मया व्यभिचारो नोपलभ्यते एतावतैव तयोर्व्याप्तिः स्यादित्यत आह - स्वादृष्टेरिति । रासभधूमयोरेकस्य व्यभिचारानुपलम्भऽपि व्याप्त्यसिद्धेरित्यर्थ: । ननु व्यभिचारानुपलम्भः स्वरूपसन्नेवाव्यभिचारग्राहकस्तथा च चक्षुरादिवत् किमस्य व्यभिचारेणेत्यत आह - योग्यति । न हि परमा-

न्यायलीलावतीप्रकाशः

तथा च कारणत्वेनादृश्यः परमाण्वादिर्न सिध्धेदित्यर्थः ।

 सर्वादृष्टेरिति । न चानुपलम्भः स्वरूपसन्नेव गमको न तु निश्चितः । तथा च चक्षुरादिवदस्य व्यभिचारेऽपि न दोष इति वाच्यम्, व्याप्यत्वेनानुपलम्भस्यात्र गमकत्वान्न तु व्यापकानुपलम्भस्य, देशकालव्यवधानेन योग्यानुपलब्धेरभावात् । अनुपलब्ध्यन्तरस्य चागमकत्वात् । तस्य स्वा.

न्यायलीलावतीप्रकाशविवृतिः

वप्रत्यक्षव्यापकस्य योग्यानुपलम्भस्येत्यर्थः । यथाश्रुते निषेध्यव्यापकस्य योऽनुपलम्भस्तस्येत्यर्थे न त्वितिविरोधापत्तेः । तस्य व्याप्यतयैव गमकत्वात् देशकालेत्यादिविरोधापत्तेः । तस्येति । 'तस्य' व्याप्यत्वेनाभिमतस्य | स्वानुपलम्भस्य व्यभिचारो दोष एवेति शेषः । तस्य


  1. रसस्वाच प्रति● ।