पृष्ठम्:न्यायलीलावती.djvu/३२८

एतत् पृष्ठम् परिष्कृतम् अस्ति
२५५
न्यायलीलावतीकण्ठाभरण-सविवृतिप्रकाशोद्भासिता


न्यायलीलावतीप्रकाशः

सोपाधित्वात् उपाधेश्च निरुपाधित्वान्न तुल्ययोगक्षेमत्वं तथापि यथा साध्यव्यापकाव्याप्यत्वेन साधनस्य साध्याव्याप्यत्वं तथा साध्यव्याप्यसाधनाव्यापकत्वेनोपाधेरपि साध्याव्यापकत्वमिति तुल्ययोगक्षेमत्वार्थ: । ननु साध्यव्यापकताग्राहकमानाभावस्तथाविधस्यानुपाधित्वे वीजम् । न च प्रकृते तथा, शरीरसहकृतस्यैव कर्तुः कारण त्वावधारणात् । न हि शरीरविनाकृतः कर्त्ता शरीरक्रियां घटादिकं वा जनयतीत्यर्थाच्छरी रजन्यमेव कर्तृजन्यमिति साध्यव्यापकतानिश्चयात् । अत एव जलस्य रसवत्त्वेन गन्धवत्त्वानुमाने पृथिवीत्वमुपाधिः । अत एव पक्षेतरत्ववत् पक्षमात्रव्यावर्त्तकधर्मवत्त्वात् साधनविशेषितत्वाच्च तनोपाधिरित्यपास्तं तयोरप्यनुपाधित्व साध्यव्यापकताग्राहकमानाभावस्य वीजत्वात्तस्य चाभावादित्युक्तम् । अत एव बाधोन्नीतं पक्षेतरत्वं वह्निमत्वेन धूमवत्वे साध्ये आर्द्रेन्धनप्रभवह्निमत्त्वं भवत्युपाधिः, विपक्षे बाधकेन तयोः साध्यव्यापकताग्रहात् । मैवम् । कर्तुर्हि शरीरसहकारिता किं घटादौ कर्त्तव्ये कार्यमात्रे वा । आद्ये घटादौ तथात्वेऽपि शरीरविनाकृतस्य कार्य मात्रकरणेन विरोधः । द्वितीये तु स्वतोऽसिद्धिः कार्यमात्रस्य त्वया कर्तृजन्यतानङ्गीकारात् । तृतीये त्वात्माश्रयः स्वजन्यत्वस्यैव स्वजन्यतावच्छेदकात् । अथैवं साध्यव्यापकत्वानिश्चयेन सन्दिग्धोपाधिः स्यात् । न च साध्यव्यापकतासन्देहो न दूषणम्, अन्यथा पक्षेतरत्वोपाघिनाऽनुमानमात्रोच्छेदापत्तेरिति वाच्यम्, विशिष्टसंशयस्य व्याप्यतासंशयाधायकस्य सा-

न्यायलीलावतीप्रकाशविवृतिः

साध्ययोरिति क्वचित्पाठः । तत्र तयोरिति षष्ठी । साध्योपाध्योरित्यर्थः । साधनसाध्ययोरिति सप्तमी । तथा च पृर्वक एवार्थः । उपाधेश्च निरुपाधित्वादिति । यद्यपि साध्यस्येति युज्यते तथापि व्याप्यवद्यापकमपि सोपाधिव्याप्तेरुभयप्रतियोगिकत्वादित्याशयेनैतदुक्तम् । न चोपाधावपि शरीरिकर्तृकाधिकरणमसमवेतत्वमुपाधिरिति वाच्यम्, अवयवस्य मृदादेः शरीरिकर्तृकत्वाभावेऽपि तत्समवेतावयविनः कदाचिच्छरीरिकर्तृकत्वाभावेन साध्याव्यापकत्वादिति भावः । यद्यपि साध्यव्यापकताग्राहकतर्काभावात् साधनेऽपि नोपाधि निश्चयस्तथापि सत्संगयोऽध्यस्तीति भावः । तथापीति | यदि चानुकूलतर्काभावान्न