पृष्ठम्:न्यायलीलावती.djvu/३२९

एतत् पृष्ठम् परिष्कृतम् अस्ति
२५६
न्यायलीलावती


न्यायलीलावतीप्रकाशः

धनाव्यापकत्वसंशयवत् साध्यव्यापकतासन्देहेऽप्यविशेषात् पक्षेतरखोपाधेश्च निराकरिष्यमाणत्वात् । मैवम् । कर्तृजन्यत्वे लाघवात् जन्यत्वस्यैवावच्छेदकत्वात्न तु शरीरजन्यत्वस्य । तथा च शरीरजन्यत्वं न सकर्तृकत्वव्यापकं घंटे त्वार्थः समाजो घटत्वेन शरीरजन्यत्वनियमात् । तस्मात् शरीरजन्यत्वं न सकर्तृकत्वव्यापकं तद्व्या प्यजन्यत्वाव्यापकत्वात् नित्यत्ववत् । वस्तुतो हस्तादिजन्ये साध्याव्यापकत्वं साक्षात्प्रयत्नाधिष्ठेयजन्यत्वस्य च विवक्षितत्वे साधनव्यापकत्वम्, अदृष्टद्वारा शरीरजन्यत्वं क्षित्यादावपीत्यतोऽपि साधनव्यापकत्वमिति सङ्क्षेपः ।

 नन्वेवं मैत्रतनयत्वेन श्यामत्वे साध्ये श्यामसामग्यपि नोपाधिः

न्यायलीलावतीप्रकाशविकृतिः

साधनस्य साध्यव्याप्यत्वं तदा तत एवोपाघेरपि न साध्यव्यापकत्वमिति भावः । पक्षेतरत्वोपाधेश्चेति । स्वव्याघातकत्वेनेति शेषः । न त्विति । ननु शरीरजन्यत्वं कर्त्तृजन्यतावच्छेदकमिति न ब्रूमो येनोक्तं गौरवं स्यात्तथा सति कर्तृजन्यत्वव्याप्यत्वप्रतीतावप्युपाधिताप्रयोजकतड्यापकत्वाप्रतीतेः । किन्तु शरीरजन्यतावच्छेदकमेव कर्त्तृजन्यत्वमिति। न चैवमपि गौरवं भवति एवं शरीरजन्यत्व सकर्तृकत्वव्यापकमिति चेत्, न प्रतीते कर्तृजन्यत्वे तदवच्छेदकत्वग्रहात् तत्प्रतीतौ च कार्यत्वस्य कर्तृजन्यतावच्छेदकत्वग्रहातद्विरोधिकल्पनान्तरानुदयात् तस्योपजीव्यत्वात् । न च कर्तृजन्यत्वग्रहमात्रमुपजीव्यं न तु कार्यत्वस्यावच्छेदकग्रहोऽपि घटत्वावच्छेदेनापि कर्तृजन्यत्वग्रहे तस्य शरीरजन्यतावच्छेदकत्व ग्रहादिति वाच्यम्, घटत्वावच्छेदेन तद्ग्रहे तस्य घटत्ववच्छरीजन्यतावच्छेदकत्वाग्रहात् शरीरजन्यत्वस्य कर्तृजन्यत्वस्य च घटादिवृत्तित्वग्रहदशायामेव कर्तृजन्यत्वावच्छेदकत्वग्रहशङ्का । अन्यथा लाघवेन घटत्वस्यैवावच्छेदकप्रहात् । न च तस्यां दशायां घटत्वावच्छेदेन कर्तृजन्यत्वग्रहो नानात्वगौरवादिति कार्यध्वेनैव तद्ब्रह इति भवत्युपजीव्यविरोध इति दिक् ।

 ननु दृष्टाद्वारक चेष्टाक्ष्रयजन्यत्वमुपाधिरिति न हस्तादिजन्ये साध्याव्यापकता न वा साधनव्यापकतेत्यत आह-संक्षेप इति । उक्त-