पृष्ठम्:न्यायलीलावती.djvu/३३०

एतत् पृष्ठम् परिष्कृतम् अस्ति
२५७
न्यायलीलावती कण्ठाभरण- सबिवृतिप्रकाशोद्भासिता


सद्भावासिद्धेः । न च मैत्र[१] तनयत्वश्यामतासाहचर्येऽप्येष न्यायः तत्रोपाधिसाधनस्य [२] न्यायस्यावश्यं व्यञ्जनीयत्वात् । धूमे तु न जठर्यसाधारणदहनानुमानं, तेजोमात्रस्य धूमोत्पत्तौ व्यभिचा रात् । दाहकस्पर्शाधिष्टानस्यैव तेजसो धूमजनकत्वनियमात् ।

कर्मनिर्मित वैचित्र्यं यदि विश्वमनीश्वरम् ।
अस्त्वनिर्मित वैचित्र्यं जगदेतदहेतुकम् ॥


न्यायलीलावतीकण्ठाभरणम्

इत्यर्थः । उपाधिप्रसाधकस्येति । उपाधेः साध्यव्यापकत्वग्राहकस्येत्यर्थः । 'व्यञ्जनीयत्वात्' उद्भावनीयत्वात् । अन्यथा तुल्य योगक्षेमत्वं तत्रापि स्यादिति भावः । नन्वेवं तत्र कथं सन्दिग्धोपाधिप्रवाद साधनाव्यापकतासन्देहादिति गृहाण । न हि मैत्रतनयं व्याप्य श्यामसामग्री (ग्या?) स्थातव्यमित्यस्ति नियमः। दृक्ष्याद्दसाधारण्येन व्याप्तौ धूमा ज्जाठरमपि सिध्येदित्याह - धूमे त्विति । वह्निधूमयोः कार्य्याकारणभावलक्षणैव व्याप्तिः । कारणं च धूमस्योद्भूतस्योद्भूतस्पर्शाश्रयो वह्निर्न तु तेजोमात्रमित्यर्थः ।

 विश्ववैचित्र्यानुरोधेन चेदीश्वरः स्वीक्रियते तदाऽदृष्टाधीनमेव वैचित्र्यमास्तां किमीश्वरेण । न हीश्वरोऽव्यदृष्टमन पेक्ष्य जनयितुमीष्टे इति मतमास्कन्दति - कर्म्मेति । एवं सत्यदृष्टमपि नेष्यतामहेतुकमेव जगदस्तु । तर्हि वैचित्र्यं न स्यादित्याशङ्कयाह – अनिर्म्मितवैचित्र्यमिति ।

न्यायलीलावतीप्रकाशः

स्यात्तुल्ययोगक्षेमत्वादित्यत आह - न चेति । तत्र साध्यव्यापकत्वग्राहकस्य कार्यकारणभावस्य सत्त्वात् । मैत्रतनयत्वं व्याप्य श्यामसामग्या स्थातव्यमित्यत्र च नियामकस्याभावादित्यर्थः । ननु कार्यत्वाददृश्यकर्तृसिद्धिवघुमादहृश्यवह्निसिद्धिरपि स्यादित्यत आह --- धूमे त्विति । अदृश्याद्वह्नेर्धूमानुत्पत्तेर्हश्यस्यैव तत्र हेतुत्वा दित्यर्थः । यस्त्वनौपाधिकत्वे सत्यपि न व्याप्तिः किन्त्वकर्त्तृकमेव कार्यजान वैचित्र्यं च कर्मनिर्मितमेवेति मन्यते तं प्रत्याह – कर्मनिर्मितेति । कर्तु-


  1. मित्रात० । मैत्रात० ।
  2. तत्रोपाधिप्रसाधकस्येति कण्ठाभरणसम्मतः पाठः ।