पृष्ठम्:न्यायलीलावती.djvu/३३१

एतत् पृष्ठम् परिष्कृतम् अस्ति
२५८
न्यायलीलावती


 कर्तृव्यापकशरीरानुपलम्भेन सत्प्रतिपक्षत्वमस्तिवति चेन्न, ईश्वरमधिकृत्याश्रयासिद्धेः । क्षित्यादिकमधिकृत्य सिद्धसाधनात् । शरीरिकर्तृकत्वव्यापकानुपलम्भेन सकर्तृकत्वं निवर्तत इति चेन्न, सकर्तृकत्वं [शरीरकर्तृत्वं] शरीरिकर्त्तृ[क] त्वाद्भेदेन प्रतीतं न वा । न चेव्घाप्यव्यापकयोरप्रतीतौ व्याप्तेरसिद्धिः [१]


न्यायलीलावतीकण्ठाभरणम्

वैचित्र्यमपि जगतो न स्यादित्यर्थः । एवं सति दृष्टविरोध इति चेत्तर्हि कर्त्तारमन्तरेण कार्थ्याभ्युपगमे न कथं दृष्टविरोध एवेति भावः । ईश्वरेति । ईश्वरो न कर्त्ता अशरीरित्वादित्याश्रयासिद्धं क्षितिर्न कर्त्री अशरीरित्वादिति सिद्धसाधनमित्यर्थः। शरीरि (री? ति । शरीरिकर्त्तृकत्वं यध्यापकं तदनुपलम्भेन क्षित्यादेः सकर्त्तृकत्वं व्यावर्त्ततामित्यर्थः । भेदेनेति । अन्योऽन्याभाववत्तयेत्यर्थः । न चेदिति । शरीरिकर्त्तृकत्वभिक्षं सकर्त्तृकत्वं यदि न गृहीतं तदा व्याप्यासिघ्घा न व्याप्तिसि-

न्यायलीलावतीप्रकाशः

रपि कारणत्वादितरकारणस्येव तस्यापि सिद्धिरिति भावः । ईश्वरमिति । ईश्वरो न कर्ता अशरीरित्वादित्याश्रयासिद्धमित्यर्थः । क्षित्यादिकमिति । क्षित्यादिकं कर्त्तृ नेति साध्य इत्यर्थः । ननु सकर्तृकत्वव्यापकं शरीरिकर्तृकत्वं क्षित्यादौ व्यावर्त्तमानं सकर्तृकत्वमपि व्यावर्तयतीत्याह- शरीरीति । एतेन शरीरिकर्तृकत्वमप्युपाधिरुक्त्तः । भेदेनेति । भिन्नाश्रयत्वेनेत्यर्थः । अप्रतीताविति । आश्रयभेदेनेत्यर्थः । तथा

न्यायलीलावतीप्रकाशविवृतिः

विपक्षबाधकेन हेतोः साध्यव्याप्यत्वे तपकतयोपाधेः साध्याव्यापकत्वमिति भावः । स्वरूपमात्रेण प्रतीतिमात्रे व्यभिचार इत्यग्रिमग्रन्थसङ्गत्यर्थमाह - भिन्नाश्रयत्वेनेति । व्याप्यस्य व्यापकेन समानाश्रयभेदेनाप्रतीतिर्न व्याप्त्यसिद्धिप्रयोजिका, किन्तु व्यभिचारा. ज्ञानरूपतया व्यातिसिद्धावेव प्रयोजिका रूपरसयोरिवेत्यत आह --- तथा चेति । ननूक्तः संशयो ग्राह्यसंशय पर्यवसन्नतया न प्रतिवन्धक


  1. सिद्धेः ।