पृष्ठम्:न्यायलीलावती.djvu/३३२

एतत् पृष्ठम् परिष्कृतम् अस्ति
२५९
न्यायलीलावतीकण्ठाभरण-सविवृतिप्रकाशोद्भासिता


प्रतीतं चेदशरीरि [१] कर्तृकत्वसिद्धौ व्यभिचारः । प्रतीतं शरीरविशेषणानवच्छिन्नत्वेन व्याप्पं, शरीरविशेषणावच्छिन्नत्वेन च प्रतीतं व्यापकमिति चेन्न, विरोधात् । यदि हि विशेषणावच्छिन्नं तत्स्थते कुतः केवलस्यावभासः । केवलं चेत्प्रथते कुतस्तदैव [२] विशिष्टावभासः । सकर्तृकत्वस्य च शरीरेण व्याप्तिगृह्यते शरीरविशिष्टेन वा । नाद्यः । असम्भवात् । न हि सकर्तृकत्वं शरीरमिति व्याप्तिप्रतीतिः । विशिष्टेनापि किं सकर्तृकत्वेन तदन्येन [३] वा । नान्येन । तद्नुपन्यासात् । नापि


भ्यायलीलावतीकण्डाभरणम्

द्धिरित्यर्थः । प्रतीतमिति । यत्र शरीरिकर्त्तृकत्वं नास्ति तत्र चेत् सकर्त्तृकत्वं प्रतीयेत तदा शरीरिकर्त्तृकादन्यत् सकर्तृकमिति स्यात्तथा च व्यभिचार इत्यर्थः । ननु विशेष्यस्याभेदेऽपि विशेषणानवच्छेदविशेषणावच्छेदाभ्यामुभयोर्भेदः स्यादिति शङ्कते--प्रतीतमिति । उभयो रेकबुघ्घारोहे व्याप्तिर्गृह्यते न चैतदस्ति विशिष्टग्रहकाले केवलस्याग्रहात् केवलग्रहकाले विशिष्ठस्याग्रहादिति परिहरति - यदीति । वस्तुतो व्यभिचारावारकविशेषणवत्वमेवात्र अन्यथा यत्समवेतं तज्जातिमत्समवेतमित्यादावपि व्याप्तिग्रहो न स्यात् । न च यत्समवतं तज्जातिसमानाधिकरणमेवेति तत्र व्याप्तिग्रहप्रकार इति वाच्यम् उपाधिभेदेन कृतकृत्वानित्यत्ववद्वयाप्तिग्रहाविरोधात् । यत् सकर्तकं तत् शरीरकर्त्तकमिति इमामेव प्रकारान्तरेण व्याप्तिं खण्डयति ---सकर्तृकत्वस्येति । न हीति । यत् सकर्त्तृकं तत् शरीरमिति न व्याप्ति-

न्यायलीलावतीप्रकाशः

च यत्सकर्तृकं तच्छरीरिकर्त्तृकमित्यत्र शरीरित्वमपि न व्याप्यन्तर्भूतं व्यभिचारावारकत्वादित्युक्तम् । प्रतीतं चेदिति । आश्रयभेदेनेति शेषः । मा भूदाश्रयभेदेन प्रतीति: स्वरूपभेदेन द्वयमध्येकत्र प्रतीतं समनियतमेवास्तु कार्यत्वानित्यत्ववदित्याह - प्रतीतमिति । व्यभिचारावारकविशेषणवरचे सत्येव दूषणान्तरमाह - विरोधादिति। न हीति ।


  1. ०दशरीरक० ।
  2. ० तस्तदेव वि० । ०तस्तेनैव वि० ।
  3. अन्येन ।