पृष्ठम्:न्यायलीलावती.djvu/३३३

एतत् पृष्ठम् परिष्कृतम् अस्ति
२६०
न्यायलीलावती



सकर्तृकत्वेन । न हि यावव्घाप्यत्वेन विवेचितं तावदेव विशे षणान्तरावच्छेदेन व्यापकमिति शक्यते वक्तुम् । व्याप्तिग्राहक[स्य] प्रमाणस्य सर्वत्र व्याप्यरूपं व्यापककोटावनन्तर्भावयत [१] एव व्याप्तिग्राहकत्व नियम [२] दर्शनात् । तर्कापरिशुद्धिस्तु किं तर्कादपरिशुद्धिर्व्याप्तिपक्षधर्मता विरोधः, तर्करूपमेव वा, अपरिशुद्धिरनुमान दूषणं वा । नाघः । तदविरोधस्य साधितत्वात् ।


न्यायलीलावतीकण्ठाभरणम्

रित्यर्थः ननु शरीरविशिष्टं सकर्त्तृकत्वमेव सकर्त्तृकत्वव्यापकं स्यादित्यत आह - न हीति । व्याप्यमेव विशेषितं सव्घापकं न भवतीत्यर्थः । कुत एवमित्यत आह - - व्याप्तिप्राहकेति । यथा प्रमाणस्यायं महिमा यत् लघु तदेव विषयीकरोति तथा व्याप्तिग्राहकमानस्यायं महिमा यव्घाप्वमेव विशेषितं व्यापककोटौ नार्न्तर्निवेशयतीत्यर्थः । नियमदर्शनादिति । धूमबह्वयादिव्याप्तौ तथैवावधारणात् । यत् समवेतं तज्जाति मत्समवेतमित्यस्यापि यत्समवतं तजातिसमानाधिकरणमेवेत्य र्थः । तर्कापरिशुद्धिपदेन यदि पूर्वोक्तविशेषविरोध एव देश्यते तत्राह- तदविरोधस्थीत । विरोधितर्कान्तरमेव तर्कापरिशुद्धिपदार्थस्तत्राह--

न्यायलीलावतीप्रकाशः

यद्यपि यत्समवेतं तज्जातिमत्समवेतमित्यादौ व्याप्यमेव विशेषितं व्यापकं भवत्येव तथापि जातिशून्ये जात्यादौ समवायसत्त्वे बाध कात् समवायाभावः प्रमित इति तत्र सन्देहाभावाद्भवति व्याप्यस्य विशेषितस्य व्यापकता । अत्र तु विशेषणं विनापि विशेष्यशङ्कया कथं व्याप्यमेव विशेषितं व्यापकं स्यादित्याहुः । वस्तुतस्तु कार्यमात्रे कर्तुः शरीरसहकारिताविरहात् साध्यव्यापकत्वे तस्य मानाभावः । अत एव शरीरिकर्तृत्वमुपाधिरित्यपि निरस्तमदृष्टद्वारा शरीरिणोऽपि कर्तृतया साधनव्यापकत्वाक्चेति भावः । तर्कापरिशुद्धिरिति । यदि कर्ता स्यात् शरीरी स्यात् प्रयोजनवान् स्यादित्यादिरूपा ।


  1. व्यापककोठावान्तभर्वयत ए० ।
  2. ०कत्वानियम० ।