पृष्ठम्:न्यायलीलावती.djvu/३३४

एतत् पृष्ठम् परिष्कृतम् अस्ति
२६१
न्यायलीलावतीकण्ठाभरण- सविवृतिप्रकाशोद्भासिता


न द्वितीयः । अनुमानरूपसाकल्ये [१] तस्यानुमित्युत्पत्ति प्रतिवन्धकत्वानिश्चयेन दूषणत्वानिश्चयात् । अन्यतरसिद्धदुषणभावस्य चैकतराभिमतसाधनवत्स्वसाध्यासाधकत्वात् शशशृङ्गप्रतिवन्दीग्रहो[२] व् बाधक इति चेन्न, अन्वयव्यतिरेकिणो [३] व्यतिरेकिणो वा विषाणसाधकत्वोपन्यासे यथैव विपक्षे साध्यव्यतिरेकावधारणं तथैव पक्षेऽपीति हेतोर्बाधित विषयत्वात् । केवलान्वयिनस्तु स्वयं साधकत्वस्वीकारेऽपसिद्धान्तात् । परसिद्धेन परस्य विरोधोद्भावनं तु नास्ति । परमते विषाणजातीयस्य दृश्यता [४]


न्यायलीलावतीकण्ठाभरणम्

अनुमानेति । व्याप्तिपक्षधर्म तयारे कैकस्यावैकल्ये ताहशतर्कस्यानुमित्यप्रतिबन्धकत्वात् । वस्तुतो नास्त्येव तादृशस्तर्कः । यदीश्वरः कर्त्ता स्याच्छरीरी स्यादनित्यज्ञानवान् प्रयोजनवांश्च स्यादित्यादीनां सिघ्घसिद्धिपराहतत्वादित्यर्थः । ननु मया तादृशक तर्कस्य दोषत्वमभ्यु पगम्यते एवत्यत आह - अन्यतरेति । यथा हेतावन्यतरासिद्धिर्दोष स्तथा दुषणेऽपि तस्याऽप्यसाधकता हेतुत्वादित्यर्थः । नत्वेषं पशु त्वेन शशेऽपि शुद्धं सिध्येदित्याह - शशेति । अर्थान्तरनिग्रहापत्तौ सत्यामपि दोषान्तरमाह - अन्वयेति । परस्य केवलान्वयानुमानानवष्टम्भेनैतदुक्तं नरादौ साध्यव्यतिरेकप्रयुक्तः साधनव्यतिरेक इति यो ग्यानुदलब्ध्या यथा तंत्र साध्यव्यतिरेकप्रमा तथा पक्षेऽपीति वा धोऽत्रेत्यर्थः । ननु प्रमेयत्वादिना शुङ्गित्वं साध्यमिति न व्यतिरेकग्रहापेक्षेत्यत आह - केवलेति | मीमांसकस्यापसिद्धान्तस्तदभ्युपगमे स्यादित्यर्थः । यद्यपि शुङ्गित्वस्य केवलान्वयित्वे केवलान्वय्यनुमानमिह स्थात्तच्च न सम्भवत्येव तथापि शङ्कामात्रमेव तत् । परमत

न्यायलीलावतीप्रकाशः

शशेति । एवं पशुत्वाद्योग्यशृङ्गबाधे शृङ्गमयोग्यं सिध्येदित्यर्थः । अन्वयेति । शशे शृङ्गस्यात्यन्ताभाव इति सर्वेषामबाधितप्रत्यक्षवाधितत्वाद्विपक्षवदित्यर्थः । परमत इति । शृङ्गत्वस्य योग्यसंस्थान


  1. पञ्चरूपम्प यादौ इत्यधिकः पाठः क्वचित् पुस्तके ।
  2. ०ङ्गवदग्र०
  3. अन्यतरान्वयव्य० ।
  4. विषाणस्य दृश्यजातीयतानि० ।