पृष्ठम्:न्यायलीलावती.djvu/३३५

एतत् पृष्ठम् परिष्कृतम् अस्ति
२६५
न्यायलीलावती


नियमात् । [इतीश्वरसिद्धिः ।]

 अणुर्नाम [१] द्रव्यान्तरमिति चेत् तन्न, तदसिद्धेरित्येके ( २ ) ।


न्यायलीलावतीकण्ठाभरणम्

इति । विषाणस्वजातेयोग्य संस्थानमात्राभिव्यङ्गयत्वेन तत्साधने बाध एवेत्यर्थः

 पुनर्विभागमाक्षिपति- अणुरिति । विभुभ्यो मूर्त्तत्वं मूर्त्तभ्यो विशे बगुणवत्त्वे नित्यत्वं वैधर्म्यमित्यर्थः । नन्वणुपरिमाणतरमभावः क्वचिद्विश्रान्तः परिमाणतरतमभावत्वात् महत्परिणामतरतमभाववत् | विश्रान्तत्वं सजातीयनिरूपितोत्कर्षमात्राश्रयत्वम् । तारतम्यं च सजातीयनिरूपितोत्कर्षव्यवहारविषयत्वम् । अश्रयासिद्धमाह ---

न्यायलीलावतीप्रकाशः

विशेषव्यङ्ग्यत्वेन बाधादयोग्ये शृङ्गत्वस्य शङ्कितुमशक्यत्वादित्यर्थः । वस्तुतोऽर्थान्तरं विपक्षे बाधकाभावेन व्याप्त्यभावश्चेति भावः । एवमीश्वरसिद्धौ तस्यानात्मत्वसाधकानि "उत्तम पुरुषस्त्वन्यः परमास्मेत्युदाहृतः । यो लोकत्रयमाविश्य विभर्त्यव्यय ईश्वरः ॥” (गीता, १५।१७) इत्याद्यागमबाधितानीति भावः

न्यायलीलावतीप्रकाशविवृतिः

इत्यरुचेराह - वस्तुत इति । विपक्षे बाघकाभावेनेति । यद्यपि पशुत्वमेव तादृशशृङ्ग संयोगजनकतावच्छेदकं लाघवादिति विपक्षबाधकं सम्भवत्येव तथाप्येवं सति द्रव्यत्वमेव ततोऽपि लघु तदवच्छेदकं स्यादित्येवं क्रमेण च सर्वस्य सर्वाधिकरणत्वापत्तिरिति प्रतिकूलतर्केणोकस्या समीचीनत्वमिति भावः । नन्वेवं परपरीहारनिराकरणेऽपि प्रथमोकाक्षेपे स्वयं परीहारो न कृत इति तं पूरयति - एवमिति । तथा च मूलकारः स्फुटत्वात्तदुपेक्षितवानिति भावः । आगमबाधितानौति । इदमुपलक्षणं वस्तुत अनात्मत्वं सुख समधायिकारणतावच्छेदकजातिविरहो वा ज्ञानवस्वाभावो वा । आधे सिद्धसाधनमन्त्ये व धर्मिग्राहकमानबाघ इत्यपि दूषणम् । द्रव्यान्तरत्वं न [२]


  1. परमाणुरित्यर्थः ।
  2. ०नि केचित् ।