पृष्ठम्:न्यायलीलावती.djvu/३३६

एतत् पृष्ठम् परिष्कृतम् अस्ति
२६३
न्यायलीलावतीकण्ठाभरण- सविवृतिप्रकाशोद्भासिता


अणुपरिमाणतारतम्यं क्कचिद्विश्रान्तमिति चेन्न, तदसिद्धावणु-


न्यायलीलावतीकण्ठाभरणम्

तदसिद्धाविति । यद्यणुद्रव्यं सिध्येत्तदाश्रितमणुत्वं परिमाणं सिध्येदित्य-

न्यायलीलावतीप्रकाशः

 'द्रव्यान्तर' पृथिव्यादिचतुष्कभिन्नमित्यर्थः [१] । व्योमादिभदस्योभयसिद्धत्वात् गन्धवरवादीनामनित्यत्वव्याप्यत्वान्महत्वव्याप्यत्वाश्चेति भावः । अणुपरिमाणेति । अणुत्वं पक्षस्तारतम्यं हेतुः क्वचिद्विश्रान्तत्वं साध्यम् । तच्च [२] स (मान) जातीयावध्यवधिमत्त्वोभयानाश्रयवृत्ति-

न्यायलीलावतीप्रकाशविवृतिः

द्रव्यभिन्नद्रव्यत्व मप्रसिद्धमत आह - पृथिव्यादीति । नन्वेषं व्योमादिभेदासिद्धिप्रसङ्ग इत्यत आह - व्योमादीति । ननु गन्धवत्वस्यानित्यत्वब्याप्यतया परमाणोः पृथिवीत्वनिराकरणेऽपि ह्यणुकव्य तथात्वाविरोध इत्यत आह - महत्त्वेति । अणुत्वमिति । अणुपरिमाणमित्यर्थः। तारतम्य मुत्कर्षा (प?) कर्षयोरन्यतरमात्राश्रयत्वमित्यर्थः । समानेति । सजातीय निरूपितोत्कर्षावधित्वानाश्रयत्वं सजातीयनिरूपितोत्कर्षावधिमत्त्वानाश्रयत्वं च साध्यम् । वृत्तिपदं तु सम्पातायातम् । यद्वा परस्परासम्बन्धेनोत्कर्षापकर्षावपि द्रव्ये वर्त्तते (तां?) इति वृत्तिपदार्थघटितमेव साध्यमन्यथा परमाणोः साक्षादसिद्धिप्रसङ्गात् । क्वचिद्विश्रान्तत्वं क्वचिद्वृत्तित्वमात्रमित्येवं साध्येऽपि यद्यपि अणुसिद्धिस्तथापि परमाणुयणुकयोरपि सिध्यर्थमिदमुक्तम् । साजात्यं च वृत्यघटितसाध्यपक्ष परिमाणत्वव्याव्यजात्या, तद्घटितसाध्यपक्षे च तज्जातीयपरिमाणवत्त्वेनेति । अत्र च सजातीयाधि-


  1. पृथिव्यादीति । एवं चाणुपदमारम्भकाणुपरम् । अणुत्वावच्छेदेन वा साध्यसिद्धिरुद्देश्या । तेन मनसा न सिद्धसाधनम् । इति दीधितिः ।
  2. तच्चेति । अणुत्वापेक्षिकोत्कर्षावधिमत्त्व मणुत्वनिष्ठावधिमत्त्वं च त्रसरेणुमहत्त्वस्यापीत्यत उक्तं सजातीयेति । सजातीयोतकर्षापकर्षैत्यर्थः । साजात्यं च परिमाणत्वव्याप्यजात्या । अवधिमत्त्वं चाश्रयत्वपर्य्यवसन्नम् । अत्रापकर्षानवधिवृत्तित्वस्यात कर्षानाश्रयवृत्तित्वस्य च सिद्धावपकृष्टमुत्कर्षावधिवृत्तित्वस्यापकर्षानाश्रयवृत्तित्वस्य च सिद्धाबुतकृष्टमुत्कर्षतदवधित्वयोरपकर्षतदवधित्वयोर्वा द्वयोरनाश्रयवृत्तित्वसिद्धौ च साधारणमुत्कर्षस्थापकर्षस्य चाग्नवध्यनाश्रयोभयवृत्तित्वस्य सिद्धौ च द्वयमणुत्वं सिध्यति । यथायथें चात्र त्रसरेणुगगनतदुभयान्यतरतदुभयमहत्त्ववृत्तित्वेन महत्त्वत्वं दृष्टान्तः । इति दीधितिः ।