पृष्ठम्:न्यायलीलावती.djvu/३३७

एतत् पृष्ठम् परिष्कृतम् अस्ति
२६४
न्यायलीलावती


न्यायलीलावती प्रकाशः

त्वम् । त्रसरेणुपरिमाणमत्र दृष्टान्तः, न त्वाकाशपरिमाणं [१] घटपरिमाणाल्पत्व निरूपणे तस्यावधित्वात् । यद्वा तारतम्यमुत्कर्षापकर्षो क्कचिद्विश्रान्तौ परस्परामधिकरणवृत्ती इत्यर्थः । तेन यथा महत्त्वोस्कर्षो महत्वापकर्षानधिकरणवृत्तिराकाशे तथा परिमाणत्वव्याप्यजातिनिरूपितोत्कषत्वेनाणुपरिमाणोत्कर्षोऽपि सजातीय मिरूपितापकर्षानधिकरणावृत्तिरिति साध्यम् । यद्वा अणुत्वं स्वसमानजा तीयनिरूपितापकर्षासमानाधिकरणस्त्रसमानजातीयनिरूपितोत्कर्ष-

न्यालीलावती प्रकाशविवृतिः

करणत्वेन सजातीयत्वेन परमाणारनाश्रय परिमाणाधिकरणत्वेननाश्रयत्वेन च व्द्यणुकसिद्धिं त्रसरेणुपरिमाणमत्र दृष्टान्त इति फक्किका सुगमा ।

 के चित्तु उत्कर्षापकर्षयोरधिकाल्पदेशव्यापकत्वे इति परमाणो: साक्षादवच्छेदकतया व्घणुकसिद्धिः । विशिष्टमेव साध्यप्रविष्टं विशिष्टाभावत्वाच्च न व्यर्थविशेषणता । एवञ्च अपकर्षावधिमत्त्वमुत्कर्षावधिमत्त्वं चैतदुभयानाश्रयवृत्तित्वं साध्यं परिमाणवृत्तिजातिः पक्षः परिमाणत्वसाक्षायाप्यजातित्वं हेतुः महत्त्ववृत्तिजातिश्च दृष्टान्तः । त्रसरेणुपरिमाणवृत्तितया तस्या दृष्टान्तता, नन्वा ( त्वा ? )काशपरिमाणवृत्तितयेत्यग्रिमफक्किकार्थ इत्याहुः । नन्वेवं त्र्यणुक महत्त्ववदप्रकृष्टाणुत्वसिद्धावपि परमाणुर्न सिघ्घेदित्य रुचेराह -- यद्वेति । उत्कर्षेति । अत्र द्वित्वं काचित्कव्यक्तिभेदाऽभिप्रायेण । अत्युत्कृष्टापकृष्टाश्रययोर्भेदेन तयोरपि भेदात् । केचित्तु य एवैकापेक्षयाऽपकर्षः स एवाऽन्यापेक्षया उत्कर्षो न्यूनानतिरिक्त व्यक्तिकजातिद्वयानङ्गीकारादिति स्मर्त्तव्यम् । यद्वेति । अत्राणुत्व पक्षः सजातीयनिरूपितापकर्षासमानाधिकरणत्वे सति सजातीयनिरूपितोत्कर्षसमानाधिकरणतत्रमिति साध्यम् । एकैकदलसाध्यतायामपि निरूपकत्वेनाऽपरयोः सिद्धौ परमाणुद्यणुकपरिमाणसिद्विरप्रत्यूहा, तथापि साक्षादेवोभयसिद्धिमभिप्रेत्य विशिष्टं साध्यमुक्तम् । हेतौ चाकाशादिपरिमाणमात्रवृत्तिजातौ व्घणुकपरिमाण-


  1. न त्विति । अपकर्षानवधिवृत्तित्वे उत्कर्षानाश्रयत्वे च साध्ये नाकाशपरिमाणांत्तत्वेन महत्त्वत्वं दृष्टान्त इत्यर्थः । इति दीधितिः ।