पृष्ठम्:न्यायलीलावती.djvu/३३८

एतत् पृष्ठम् परिष्कृतम् अस्ति
२६५
न्यायलीलावतीकण्ठाभरण- सविवृतिप्रकाशोद्भासिता


परिमाणस्यासिद्धेः [१] । महत्त्वापकर्ष इत्थं व्यपदिश्यत इति चेन्न, तस्य त्रुटावेव विश्रामात् । अणुव्यवहाराम्पदमात्रमनुपात्ताणुमहदादिवैचित्र्यं धर्मीति [२] चेन्न, प्रमाणसिद्धस्य


न्यायलीलावतीकण्ठाभरणम्

र्थः । अणुत्वासिद्धावपि प्रकारान्तरण पक्षमाह - महत्त्वेति । इत्थमिति । अणुत्वनेत्यर्थः | महत्त्वापकर्षस्त्रसरेणावेव विश्रान्त इति तत्पक्षतायां सिद्धसाधनमित्याह-तस्येति । अणुव्यवहारतारतम्यस्य पक्षत्वं शङ्कते--- अणुव्यवहारास्पदमिति । व्यवहरणीयासिद्धौ व्यवहारासिद्धेराश्रयासिद्धि-

न्यायलीलावती प्रकाशः

समानाधिकरणं परिमाणत्वसाक्षाद्याव्यजातित्वान्महत्त्ववदित्यर्थ: [३] तदसिद्धाविति । अणुद्रव्यासिद्धौ तदाश्रिताणुत्वासिद्धावाश्रयासिद्धेरित्यर्थः । इत एव तत्सिद्धावितरेतराश्रय इति भावः । 'इत्थं' अणुपरिमाणतारतम्यशब्देनेत्यर्थः । तस्येति । त्रसरेणावेव महत्त्वापकर्षो विश्रान्त इति सिद्धसाधनमित्यर्थः । अणुव्यवहारेति । अणुव्यवहारतारतम्यं धर्मीति नाश्रयासिद्धिरित्यर्थः । प्रमाणेति । महत एव

न्यायलीलावतीप्रकाशविवृतिः

वृत्तिजातौ च व्यभिचारवारणाय साक्षात्पदम् । के ( क्व ? ) चित्तु अपकर्षासमानाधिकरणेपाते: ( ति पाठः ? ) तत्रापकर्षासमानाधिकरणो य उत्कर्षस्तत्समानाधिकरणमिति साध्यम् । परमाणुप्रकारकप्रतीत्यर्थेसाध्याविशेषणमन्यथा ह्यणुकापेक्षया तूत्कृष्टेन परमाण्व पेक्षयाऽपकृष्टेनार्थान्तरत्वात् । केचित्तु तत्पाठंऽपि अपकर्षासमानाधिकरणत्वे सति उत्कर्षसमानाधिकरणत्वमेव साध्यम् । असमानांधिकरणत्वं च तदनधिकरणाधिकरणत्वमित्याहुः । तदयुक्तम् । तथा सत्युत्कर्षैत्यादिव्यर्थतापत्तेः । एतत्पाठपक्षे साक्षात्पदं त्र्यणुकपरिमाणवृत्तिजातावेव व्यभिचारवारणायेत्यवधेयम् । महत्त्ववदिति । महत्त्व-


  1. ० माणस्यैवासिद्धेः ।
  2. धर्म्म इति चे० ।
  3. अणुत्वं स्वाश्रयसजातयिावधिका पकर्षांसमानाधिकरणस्य स्वाश्रयसजातीयावधिकस्योत्कर्षस्य समानाधिकरणम् । एवं तादृशोत्कर्षासमानाधिकरण तादृशा पकर्षसामानाधिकरण्यमपि साध्यम् । साक्षादिति महत्त्वत्वावान्तरजातिभेदवारणाय । इति दीधितिः ।