पृष्ठम्:न्यायलीलावती.djvu/३३९

एतत् पृष्ठम् परिष्कृतम् अस्ति
२६६
न्यायलीलावती


व्यवहारास्पदत्वेन महत्त्व भेदा दन्यस्य व्यवहारास्पद ताप्रतिक्षेपात् । त्रसरेणुर्भागवान् चाक्षुषद्रव्यत्वात् । अन्यथा तन्न स्यात् । महत्त्व प्रकर्षस्य चाक्षुषतानुविधानात् । दूरे केशायनुपलम्भेऽपि शाल [ताल ] तमालोपलम्भात तथा चानेकद्रव्यवत्वमपि महत्वकारणत्वाद् [१] धूम इवेन्धनमनुविधत्ते चाक्षुषत्वमिति तत्सिद्धिरिति चेन्न, महत्त्वनित्यत्वेनाप्युपवत्तेः । त्रसरेणुः कार्यों


न्यायलीलावतीकण्ठाभरणम्

माह - - नेति । अणुमात्रं साधयति -- त्रसरेणुरिति । परमाणुसिसाधयिषा चेत् तदा भागवत्व सावयवावयत्वं वक्तव्यम् । त्रसरण्ववयवाः सावयवा इति वाऽनुमानम् । अन्यथेति । निरवश्वत्वे चाक्षुषत्वं न स्थादित्यर्थः महत्त्वात । महत्वानकर्षात् प्रत्यक्षोत्कर्ष इति महत्त्वं यथा प्रत्यक्षत्व तन्त्रं तथाऽनेकद्रव्यवत्वं महत्व तन्त्रम् । तच्च सावयवावयवत्त्वे परमुपपद्यत हान परमाणुसिद्धिरिति शङ्कार्थः । त्रसरणौ नित्यमेव महत्त्वमस्तु किं तदर्थमनेकद्रव्यवत्वकल्पनयेत्याह-नेति ।

न्यायलीलावतीप्रकाशः

तथात्वे त्रुटावेवोपपत्तेः सिद्धसाधनम् । अन्यस्य चासिद्धेरित्यर्थः । किं चतारतम्यं तरतमभावस्तद्विश्रान्तिस्तद्वृत्तिरिति न सिद्धसाधनम् । न हि तरतमपदाभिधेये तद्धर्मो न वर्त्तत इति कश्चिदभ्युपैति । अन्यथा त्वनिर्वचनमित्यथः । अणुद्रव्यसाधकान्तरमाह - त्रसरेणुरिति । 'भागवान्' सावयवावयव इत्यर्थः । यद्वा त्रुटेरवयवसिद्धौ ते सावयवाः चाक्षुष द्रव्यावयवत्वात्तन्तुवादत्यर्थः । अन्यथेति । निरवयवत्वे चाक्षुषद्रव्यत्वं न स्यादित्यर्थः । मदत्त्वप्रकर्षस्येति । महत्त्वप्रकर्षेण चाक्षुषत्वप्रक र्षदर्शनादकारणोत्कर्षेण चाकार्योत्कर्षा भावान्महत्त्वस्य चाक्षुषत्वं

न्यायलीलावतीप्रकाशविवृतिः

त्ववदित्यर्थः । 'तरतमभाव'स्तरतमपदवाच्यभावः । यथाश्रुते परमाणुह्यणुकयोरुभयोः सिद्धिर्न स्यादित्यत आह - अवयवेति । अत्रावयवत्वं समवायित्वमात्रमतो द्रव्यत्वसमवाय्यात्मत्वादौ व्यभिचारवारणाय द्रव्यपदम् । यदि चावयवत्वं समवायिकारणत्वपर्यन्तं तदा


  1. तथाऽनेकद्रव्यवतामपि महत्कारणत्वाद् धू० ।