पृष्ठम्:न्यायलीलावती.djvu/३४०

एतत् पृष्ठम् परिष्कृतम् अस्ति
२६७
न्यायलीलावतीकण्ठाभरण-सर्विवृतिप्रकाशोद्भासिता


महत्ये सति क्रियावत्यादिति चेन, महच्याविशेषणव्यावर्त्त्याप्रतीताव सामर्थ्यात् [१] | तस्यान्यतः [२] प्रतीतौ वैयर्थ्यापातात् । अतः प्रतीतावन्योन्याश्रयःत् | नित्यश्च त्रसरेणुर्भहस्त्रोत्कर्षापकर्षाभ्यां शून्यत्वात् गगनवत् । महत्त्वाधिकरणमनित्यमुत्कष्टा-


न्यायलीलावतीकण्ठाभरणम्

महत्त्वे सतीति । क्रियावत्वस्य मनसि व्यभिचाग्वारणाय तदा स्याद्यदि मनोऽणु स्यात्तच्च नास्तीति विशेषणवैयर्थ्यामाह - महत्त्वेति । ननु व्यासङ्गान्यथानुपपत्त्या मनसाऽणुत्वे सिद्धे विशेषणमर्थवद् भवेदित्यत आह - तस्येति । सिद्धमेव तदणुत्वमित्यनुमानमतन्त्रमित्यर्थः । महत्त्वेति । अनित्यगुणादौ व्यभिचारवारणाय विशेषणं पूरयित्वा व्यतिरेकव्याप्तिमा दर्शयति - महत्त्वाधिकरणमिति । व्यतिरेकव्याप्तौ यद्यपि महत्त्वाधिकरणमिति विशेषणं व्यर्थं तथाप्यन्वयव्याप्तौ द्रष्टव्यम् । हेतुव-

न्यायलीलावतीप्रकाशः

प्रति कारणत्वादित्यमेव महत्त्वं प्रत्यनेकद्रव्यवत्त्वस्य कारणत्वात् त्रसरेण्ववयवावयवसिद्धिः स एव च परमाणु रित्यर्थः । यद्यध्येतावता दूरे साक्षात्कार विशेष प्रति महत्त्वप्रकर्षः कारणं सिद्धति न तु साक्षात्कारसामान्य प्रति महत्त्वसामान्यं तथापि विशेषयोः कार्यकारणभावे बाधकं विना सामान्योरपि तथात्वमिति भावः । कार्यमहत्त्वेऽनेकद्रव्यवत्वं कारणं त्रसरेणुमहत्वं च नित्यमिति न तकारणत्वना नेकद्रव्यवत्त्वमित्याह - महत्त्वेति । महत्त्वोत्कर्षेति । महत्त्वे सतीतिविशेषणान्नानित्यगुणेन व्यभिचारः । यद्यप्यन्वयव्याप्त्यैव साध्यं सिद्ध्यति तथापि परषामन्वयव्यतिरेकसहचाराभ्यामेव व्यातिग्रहाह्यतिरेक सहचारमप्याह - महत्त्वाधिकरणमिति । न च व्यतिरेक-

न्यायलीलावती प्रकाशविवृतिः

द्रव्यपदं त्याज्यमेव । इत्थमेवेति । तदुत्कर्षात्तदुत्कर्षेणेत्यर्थः । यद्यपि नानापरमाणुजन्यत्वेऽध्यनेकद्रव्यवत्त्वमुपपद्यत इति न तसिद्धौ परमाणुद्यणुकोभयसिद्धिस्तथापनेकद्रव्यं यत तत्समवायिकारणकत्वमेवात्र तत्पदेनाभिप्रेतम् । तथा च त्रसरेणोः सावयवावय-


  1. व्यावृत्त्यप्रतीताव । व्यावर्प्रसिद्धाच० ।
  2. लक्ष्म्यतः ।