पृष्ठम्:न्यायलीलावती.djvu/३४१

एतत् पृष्ठम् परिष्कृतम् अस्ति
२६८
न्यायलीलावती


पकृष्टमहत्त्वसम्बन्धप्रतिबद्धम् । घटो हि कुतश्चिदल्प इति [१] कुतश्चिन्महत्तरो भवति न त्वेवं गगनं, कुतोऽप्यल्पताया अभावात् [२] । त्रसरेणोर्महस्त्रं [ तु ] महत्त्वान्तरेभ्योऽपकृष्टं न कुतोऽप्युत्कृष्टम् । न हि त्रसरेणोरल्पं महदस्तीति, दृश्यसमवायिहेतूनां च दृश्यत्वनियमात् दृश्यत्वस्य च [३] दृश्यानुपलब्धिप्रतिक्षितत्वात् । अन्यथा दृश्यादृश्यव्यवस्थाविलयनियमात् ।


न्यायलीलावतीकण्ठाभरणम्

त्वं स्फुटयितुमाह - घटो हीति । दृश्यसमवायिहेतू नामिति । दृश्य (द्रव्य ? ) समवायिकारणानामित्यर्थः । तेन शब्दगन्धादौ न व्यभिचारः । दृश्यानां चेत्यत्र त्रसरेणुस मवायिकारणानामिति शेषः । अवयवो महानेवेति व्याप्तिर्निरुप ( ।१) घिसहचारबलात् सिद्धेति भावः । अन्यथेति । यदि दृष्टा-

न्यायलीलावतीप्रकाशः

व्याप्तौ महत्वग्रहणं व्यर्थम्, उत्कर्षापकर्षशून्य महत्त्व मात्र व्यतिरेकस्यैव प्रकृतोपयोगादिति वाच्यम्, विशिष्ट व्यतिरेक प्रदर्शनपरत्वात् तेन क्कचि न्महत्वमात्र व्यतिरेकात्क्कचिन्महत्त्वे सत्येवोत्कर्षापकर्ष सम्बन्धाद्विशि ष्टव्यतिरेकः सिद्ध्यति । दृश्यसमवायीति । दृश्यद्रव्यसमवायिकारणानामित्यर्थः । तेन शब्दगन्धाभ्यां न व्यभिचार : [४]। दृश्यानुपलब्धीति । त्रसरेणुसमवायिकारणाना मिति शेषः । निरुपाधिसहचारदर्शनादवय वो महानेवेति व्याप्तिग्रहान्नादृक्ष्यावयवसिद्धिरित्यर्थः । यत्तु पृथिवीत्वं निरवयववृत्ति इन्द्रियानिन्द्रियवृत्तिजातित्वात् सत्तावत्

न्यायलीलावती प्रकाशविवृतिः

वत्वमायातीति भावः । महत्त्वग्रहणमिति । व्यापकीभूतसाध्याभावकोटाविति शेषः । विशिष्टेति । विशिष्टस्य हेतौ व्यतिरेकः । सत्यपि महत्त्वे क्कचिदुत्कृष्टापकृष्टत्वशून्य महत्त्व रूपविशेष्याभावादिति (प्रति ?) पादनार्थत्वादिति भावः । दृश्यद्रव्येति । प्रत्यक्षद्रव्येत्यर्थः । इन्द्रियेति ।


  1. ल्पतरः कु. । ल्प इव कुत० ।
  2. असम्भवात् ।
  3. क्वचित् पुस्तके दृश्यत्वस्य चेति नास्त ।
  4. दृश्यपदस्य योग्य मात्रे प्रसिद्धत्वात् । चाक्षुषपरत्वे तु चाक्षुषरूपवतोऽप्यनुद्भूतस्पर्शस्यामल्यक्षस्वमते तत्र व्यभिचारो बोध्यः ।