पृष्ठम्:न्यायलीलावती.djvu/३४२

एतत् पृष्ठम् परिष्कृतम् अस्ति
२६९
न्यायलीलावतीकण्ठाभरण- सविवृतिप्रकाशोद्भासिता


[१] तदिदमसङ्गतम् । यथा तैजसानां कारणानां न दृश्यतानियमस्तथेहापि । अन्यथा नयनविलयात् । न च वसरेणुमहत्त्वं नित्यं महत्त्वे सति चाक्षुषत्वात् घटमहत्ववत् ।


न्यायलीलावतीकण्ठाभरणम्

तिक्रमः क्रियत इति भावः । पृथिवीत्वं निरवयववृत्ति इन्द्रियानिन्द्रियवृत्तिजातित्वात् सत्तावत्, न सावयवमात्रवृत्ति द्रव्यत्वसाक्षाद्याव्यजातित्वात अणुत्ववदिति परमाणुसिद्धौ मानं गन्धवन्मात्रवृत्तित्वेन प्रतिरुद्धम् । अवयवो दृश्य एवेति व्याप्तिचक्षुरवयवे भग्नेत्याह-- यथेति । सहचारमात्रान्न व्याप्तिरिति हृदयम् । अन्यथेति । सहचारमात्रे चेद् व्याप्तिस्तदा तेज उद्भूतस्पर्शाश्रय एवेति व्याप्तिबलान्नयनमपि न सिध्येदित्यर्थः । यद्वा अवयवो दृश्य एवेति व्याप्तिरित्यर्थः । ननु त्रसरेणौ नित्य महत्त्वमस्तु । तथा च न तवयवचिन्तेत्याह -- न चेति ।

न्यायलीलावतीप्रकाशः

यद्वान सावयमात्रवृत्ति द्रव्यत्वसाक्षाद्याव्यजातित्वात् आत्मत्ववदिति, तद्न्धवन्मात्रवृत्तित्वेन प्रतिरुद्धम् । यदि निरुपाधिसहचारमात्रेण व्याप्तिग्रहस्तदा तेज उद्भूनरूपस्पर्शान्यतममिति नियमान्न चक्षुरपि सिध्येत् । अथ तत्र विपक्षबाघकाभावान्न व्याप्तिस्तदा तुल्यं प्रकृतेऽपी त्याह ——यथेति । महत्त्वे सतीगते । न चेदमप्रयोजकमवान्तरमहत्त्वं ह्यवयव.

न्यायलीलावती प्रकाशविवृतिः

घटत्वादौ व्यभिचार (चार ?) णाय इन्द्रियवृत्तित्वं घ्राणत्वादौ व्यभिचारवारणायानिन्द्रियवृत्तित्वं ब्राणघटान्यतरत्वादौ व्यभिचारवारणाय जातित्वं विशेषणमिति भावः । अत्र साधनावच्छिन्नसाध्यव्यापको निरचयवेन्द्रियवृत्तित्वमुपाधिरित्यरुचेराह – यद्वेति । तदिति । इदमुपलक्षणं परेण रूढरेव निरवयवस्य स्वीकारात् सिद्धसाधनम् । अप्रत्यक्षनिरवयववृत्तित्वे च साध्ये स्वमते व्यर्थविशेषणम् । उक्तानुमाने गन्धवन्मात्रावृत्तित्वं चोपाधिरिति द्रष्टव्यम् । यदीति । यदि च बाधोन्नीतपक्षेतर एवोपाधिस्तत्र तदा प्रकृतेऽपि तुल्यमिति भावः । अवान्तरेति | अपकर्षाधिकरणेत्यर्थः । परेण त्रुटिमहत्त्वे


  1. दृश्यावृष्यनियम व्यवस्थाविलयात् तदि० ।