पृष्ठम्:न्यायलीलावती.djvu/३४३

एतत् पृष्ठम् परिष्कृतम् अस्ति
२७०
न्यायलीलावती


न च नित्यत्र स्त्ररेणुमहत्त्वापकर्षविरहमात्रस्य महत्त्वैकाधिकरणस्य नियमग्राहकमानगोचरत्वात् । अनुमानादेव परमाणु-


न्यायलीलावतीकण्ठाभरणम्

चाक्षुषत्वं गोत्वादौ व्यभिचारि महत्त्वादितिमात्रं गगनादिमहत्त्वे व्यभिचारीति विशिष्टहेतूपादानम्। नित्यस्त्रसरेणु: महत्त्वोत्कर्षापकर्षाभ्यां शून्यत्वादिति दूषयति --- न च नित्य इति । महत्त्वापकर्षशून्यत्वादित्येवं नित्यत्वे हेतुर्न तु उत्कर्षशून्यत्वमपि विशेषणं वैयर्थ्यादित्यर्थः । एवं सति व्घणुके व्यभिचारस्तद्वारणार्थं महत्त्वैकाधिकरणस्येति । तथा च महत्वसमानाधिकरणमहत्त्वापकर्षशून्यत्व मेव नित्यत्वे हेतुरित्यर्थः । अनुमानादेवेति । अणुरिमाणतारतम्यं क्वचिद्विश्रान्तं परिमाणतारत. म्यत्वादित्यनुमानादवेत्यर्थः । यद्वा त्रसरेणुर्भागवानित्यनुमानादित्यर्थः ।

न्यायलीलावतीप्रकाशः

बहुत्वसङ्खयाम इत्त्वप्रचयप्रयोज्यं तत्रोक्त महत्त्वप्रचययोरवयवानां सावयवत्वमन्तरेणासम्भव एव । प्रचयो हि प्रशिथिलः संयोगः किञ्चि दवयवावच्छेदेन भवतीत्येवं रूपः । एवं महत्त्वमपि [१] सावयवावयव त्वमपेक्षत इति सावयवत्वसमानाधिकरणानामेव तेषां महत्त्वप्रयोजकत्वमिति त्रसरेण्ञवयवाः सावयवाः । एतेन बहुपरमाणुभिरेव त्र सरेणुरारभ्यतां कि व्घणुकेनेांत प्रत्युक्तं सावयवावयत्वस्य महत्त्वे महत्त्वस्य च द्रव्यचाक्षुषत्व कारणत्वात् । एतेन त्रसेरण्ववयवो यदि सावयवः स्यात् महान् स्यात् त्रसरेणुर्यदि सावयवावयवः स्यात् महावयवः स्य दित्यपास्तम्, अप्रयोजकत्वात् । प्रकृते च विपक्षबाधकस्योक्तत्वात् । न च नित्य इति । नित्यत्वे साध्येऽपकृष्ट महत्त्वानधिकरणत्वमुपाधिः । न च तुल्य योगक्षेमत्वं महत्त्वस्य कार्यत्वेऽपकष्टमहत्त्वमेव प्रयोजकं न तूत्कर्षापकर्षोभयाश्रयमहत्त्वं गौरवादित्यर्थः । अनुमानादेवेति । त्रसरेणु र्भागवान् चाक्षुषद्रव्यत्वादित्यनुमानादित्यर्थः ।

न्यायलीलावतीप्रकाशविवृतिः

नित्यत्वस्वीकारात् । यद्यपि प्रचयादीनां मिलितानां हेतुत्वे त्रसरेणो. र्महत्वं न स्यात् प्रत्येकं च हेतुत्वे परमाणुभिरपि त्र्यणुकारम्भे त


  1. बहुश्वमपि सा० ।