पृष्ठम्:न्यायलीलावती.djvu/३४४

एतत् पृष्ठम् परिष्कृतम् अस्ति
२७२
न्यायलीलावती


अन्यथा स्फटिकलौहताम्रादिजातेरप्यनुमानापत्तेः । ततः परममहद्गगनबदणवोऽपि द्रव्यान्तरमेव । अन्यथा तत्रापि का प्रत्याशेति स्थितम् । मैवम् । तदसिद्धेः । यदि हि दृश्यैकव्यङ्गयेयं स्यात् स्यादेवम् । न त्वेवम् । केवलस्य दृश्यत्वस्य भूजलादिसा- धारण्येन व्यभिचारित्वात् । गन्धादिना तु विशेषणे वैयर्थ्यात् । गन्धसमवायिकारणतानिर्वाहक जातेरणावपि [१] स्वीकारात् ।


न्यायलीलावतीकण्ठाभरणम्

ञ्जकं तच्च परमाणौ नास्तीत्यर्थः । तत इति । यथा गगनं परममहत्त्वात् पृथिव्यादिभ्यो भिद्यते तथा परमाणुत्वादणवोऽपि तेभ्यो भिद्यन्त इत्यर्थः । अन्यथेति । गगनादिकमपि पृथिव्यादिविशेष एव स्यादित्य र्थः । तदसिद्धेरिति । पृथिवीत्वस्य दृश्य सन्तानव्यङ्गत्वासिद्धेरित्यर्थः । स्यादेवमिति । परमाणौ पृथिवीत्वं न स्यादित्यर्थः । दृश्य सन्तानव्यङ्गत्वे दोषमाह - दृश्यत्वस्येति । ननु गन्धवत्त्वे सति दृश्यसन्तानव्यङ्गत्वं सम्भवेदित्यत आह - गन्धादिनेति । तर्हि गन्धवत्वमात्रमेव पृथिवीत्वव्य ञ्जकमस्तु किमधिकेनेत्यर्थः । किं च गन्धसमवायिकारणत्वं किश्चिदवच्छेद्यं बाधकाभावात् तज्जातिरूपमित्यणावपि तजातिरित्याह--- गन्धेति । गन्धश्च परमाणौ तत्कार्थ्यपरम्परागन्धानुमेय एवेति

न्यायलीलावतीप्रकाशः

पृथिवीत्वमपि बाधितमित्यर्थः । अन्यथेति । यदि गन्धादिव्यङ्गयं पृथिवीत्वं परमाणौ स्यात्तदा रूपविशेषादिव्यङ्गयं ताम्रत्वादिकमपीति तदपि परमाणौ स्यादित्यर्थः । तदसिद्धेरिति । दृश्यसंस्थानविशेषाभिव्यङ्गयत्वासिद्धेरित्यर्थः । दृश्यत्वस्येति । दृश्य संस्थानवत्त्वस्येत्यर्थः । 'व्यभिचारित्वात्' अतिव्यापकत्वादित्यर्थः । अव्यापकत्वमपि मन्त. व्यम् । पार्थिवत्रसरेण्ववयवसंयोगात्मकस्य संस्थानस्यादृश्यत्वात् । गन्धादिनेति । विशेषणमात्रस्याभिव्यञ्जकत्वे विशेष्यवैयर्थ्यादित्यर्थः । परमाणोरपृथिवीत्वे बाधकमाह - गन्धसमवायीति । परमाणौ यदि पृथि वीत्वं न स्यात् गन्धसमवायिकारणत्वं न स्यादित्यर्थः । एतन्मूल-


  1. ०तेः परमाणावपि ।