पृष्ठम्:न्यायलीलावती.djvu/३४५

एतत् पृष्ठम् परिष्कृतम् अस्ति
२७३
व्यायलीलावतीकण्ठाभरण- सविवृतिप्रकाशोद्भासिता


अन्यथा गन्धसमवायिकारणत्वानुपपत्तेः । गन्धस्नेहभास्वररूपापाकजस्पर्शेन क्षितित्वादिजात्यनुमानात्, स्फटिकादिजातेक्ष्च गुणविशेषस्य व्यवस्थापकस्याभावात् दृश्यसंस्थानव्यङ्गयत्वेनाणुषु तदनुमानविरोधात् ।

इति परमाणुः ।


न्यायलीलावतकण्ठाभरणम्

भावः । अन्यथेति । अवच्छदेकं विनेत्यर्थः । पृथिवीत्वव्यञ्जकमुक्तमपि जलत्वा दिव्यञ्जक साधारण्येन पुनराह- गन्धेति । ननु गन्धस्य परमाणावपि जन्यत्वात् तत्समवायिकारणतावच्छेदिका पृथिवीत्वं जातिः सिध्यतु, जलादौ तु स्नेहादीनां परमाणुषु नित्यत्वात् कथं तत्समवायिकारणतावच्छेदकं जलत्वादि भवेदिति चेन्न, जलाद्यवयविनि स्नेहादिसमवायिकारणतावच्छेदकतया जलत्वादिकं प्रसाध्य जलादिपरमाणवः स्वोपादेयवृत्तिद्रव्यत्वसाक्षाद्व्याप्यजातिमन्त इति साधनीयमिति भावः । ननु स्फटिकत्वादिकमपि गुणविशेषव्यङ्ग्यमिति परमाणावपि तहुणसत्त्वात् स्फटिकत्वादिकं स्यादित्यत आह--- स्फटिक्रेति । स्फटिकत्वादे: संस्थानविशेषव्यङ्ग्यत्वं संस्थानविशेषश्च

न्यायलीलावती प्रकाशः

व्याप्ति साधयति — अन्यथेति । पृथिवीत्वजातेर्गन्धसमवायिकारणताव च्छेदकत्वेनैव सिद्धेरित्यर्थः । स्नेहीत । परमाणौ स्नेहादेर्नित्यत्वेऽपि यथैव तज्जातयः सिद्ध्यन्ति तथोपपादितमधस्तात् । गुणविशेषस्येति । रूपविशेषस्य प्रस्तरविशेषसाधारण्यादित्यर्थः । दृश्यसंस्थानेति । न च स्फटिकत्र सरेणावव्याप्तिः, तदवयवसंयोगस्यादृश्यत्वादिति वाच्यम्, संस्थानविशेषस्यैव व्यञ्चकत्वेन विवक्षितत्वात् दृश्यत्वस्य तत्परि-

न्यायलीलावतीप्रकाशविवृतिः

द्गतबहुत्वसङ्खयाया महत्त्वारम्भाविरोधः । तथापि प्रचयस्य किश्चिदवयवावच्छिन्न संयोगात्मकस्य महत्त्वविशेषं प्रति कारणतया यद्विशेषयोरिति न्यायेन सावयवसंयोगत्वेन महत्त्वसामान्यं प्रति कारणतेति भाव इति मिश्राः । तदयुक्तम् । उक्तन्यायेनाऽष्यवयबसंयोगत्वेनैव कारणताग्रहात् । वयं तु सामग्येव व्द्यणुके मानं परमाणु-