पृष्ठम्:न्यायलीलावती.djvu/३४६

एतत् पृष्ठम् परिष्कृतम् अस्ति
२७४
न्यायलीलावती


 शब्दो गुणो, जातिमत्त्वे सति अस्मदादिबाह्याचाक्षुषप्रत्य-


न्यायलीलावतीकण्ठाभरणम्

परमाणुषु नास्तीति न तत्र स्फटिकत्वादि । तत्सत्त्वे वा तजातीयपरमाण्वारब्धानां घटादीनामपि स्फटिकत्वादिकं स्यात् । न हि तन्मू. लभूताः परमाणवो न द्रव्यान्तरमारभन्ते । अत एव द्रव्यत्वसाक्षाव्घाप्यजातरेव सत्ताद्रव्यत्वातिरित्त्कायाः परमाणुवृत्तित्वाभ्युपगमे दधित्वदुग्धत्वादी नामपीयमेव गतिः ।

 आकाशसाधनाय पीठमारचयति - शब्द इति । जातिमत्त्वे सतीति ।

न्यायलीलावतीप्रकाशः

चायकत्वमात्रत्वात् । स च संस्थानविशेषः प्रस्तरविशेष एव रत्नशास्त्रजज्ञानसचिवचक्षुवैद्यः । न च स्फटिकसमवायिकारणतावच्छे दकत्वेन स्फटिकत्व सिद्धेस्तदपि परमाणौ स्यात् स्फटिकत्वस्यैकनिरूपितकार्यत्वकारणत्वावच्छेदकविरोधात् । जातिमत्त्वे सतीति । नन्विदं यथाश्रुतं स्पर्शनप्रत्यक्षे घटे कर्मणि चानैकान्तिकम् । अथाचाक्षुषपदेन चाक्षुषज्ञानाविषयत्वं विवक्षितं न्यायलीलावती प्रकाशविवृतिः

द्वयसंयोगदशायां समवायिकारणासमवायिकारणादीनां सत्वे तद्रव्योत्पत्तेरावश्यकत्वात् । महत्त्वे च तस्य कारणाभावादर्थात्तयणुके तस्य निष्प्रयोजनत्वशङ्कया आरम्भकत्वे सति द्वाभ्यामारम्भपक्षेऽपि तथा । तस्यापि व्घणुकत्वाविशेषादिति तैरित्रभि रारम्भाभ्युपगमे तत्रैव त्रसरेणुत्वेन व्घणुकत्वेन च कार्यकारणभावव्यवस्थितौ न परमाणु भिरपि तदारम्भस्तत्र तेषां स्वरूपायोग्यत्वादिति ब्रूमः । 'महत्त्वे' जन्यमहत्त्वे (?) । रत्नेति । स्थूलस्फटिकादविति शेषः । वस्तुतः शास्त्रापेक्षपदविशेषसङ्केतग्रहानुगता तु जातिरध्यक्षैव तद्विनापीति द्रष्टव्यम् । सम वायिकारणत्वेन तद (वच्छेद ?) केनेत्यर्थः । स्फटिकत्वेति । यद्यपि अन्यस्फटिकत्वेन कार्यता स्फटिकत्वेन च कारणतेति नोक्तदोषः, तथापि स्फटिकत्वादेः परमाणुवृत्तित्वे तदारब्धभस्मन्यपि तदापत्तिः, परमाणुवृत्तिजातेस्तदारब्धपरम्परावृत्तित्वनियमात् । अत एव गन्धविशेषाद्यभिव्यङ्गयमपि कस्तूरिकात्वादिकं न परमाणुवृत्तीति भावः ।

 यथाश्रुतमिति । अचाक्षुषं यत्प्रत्यक्षं तद्विषयस्वरूपमित्यर्थः । अथेति ·