पृष्ठम्:न्यायलीलावती.djvu/३४७

एतत् पृष्ठम् परिष्कृतम् अस्ति
२७५
न्यायलीलावतीकण्ठाभरण- सविवृतिप्रकाशोद्भासिता


क्षत्वात् गन्धवत् । यदि तु निरवयद्रव्यं [१] स्यात् बाह्येन्द्रिय ग्राह्य न स्यात् । निरवयत्रद्रव्यस्य बाह्योन्द्रियाग्राह्यत्वेन प्रतिबन्धात् ।


न्यायलीलावतीकण्ठाभरणम्

गोत्यादौ व्यभिचारवारणाय चक्षुरग्राह्यत्वे सति वाह्यप्रत्यक्षत्वादिति हेत्वर्थः । तेन कर्मणि घटादौ च त्वगिन्द्रियग्राह्ये न व्यभिचारः | वाह्यपदमात्मव्यावर्त्तनार्थमिति तिमिरोत्पन्नकर्म्मव्यक्तौ च चक्षुर्ग्रहणयोग्यत्वादेव न व्यभिचारः । अन्यथा तस्य स्पार्शनत्वमपि नस्यात् । शब्दद्रव्यत्ववादिनमाशङ्य निराकरोति — यदि त्विति । शब्दो द्रव्यं भवन्निरवयवं वा स्यात् सावयवं वा । आद्य आह - यदि त्विति । सावयवं त्ववयवानुपपत्तिपराहतमिति भावः । शब्दो ह्याश्रयतया

न्यायलीलावती प्रकाशः

तदा तिमिरोत्पन्नकर्मव्यक्तौ व्यभिचारः । अथास्मदादिवाह्यचाक्षुषवृत्तिजात्यनाधारत्वं हेत्वर्थस्तथापि प्रत्यक्षासमवेतनिरवयवेन्द्रियमात्रवेद्यान्यत्वमुपाधिः । मैवम् । निरवयवद्रव्यस्य वाह्येन्द्रियाग्राह्यत्वलक्षणविपक्षबाधकेन हेतोः साध्याव्यापकत्वात् । तद्व्यापकतयोपाधेः

न्यायलीलावतीप्रकाशविवृतिः

अचाक्षुषत्वे सति बाह्यप्रत्यक्षविषयत्वं हेतुरित्यर्थः । तदेति । चाक्षुषत्वं यदि फलोपाधानं तदेदं दूषणम् । अस्मदादीति । अस्मदा दिबाह्यप्रत्यक्षत्वे सति सत्ताद्रव्यत्वगुणत्वभिन्नचाक्षुषवृत्तिजात्यनाधारत्वादित्यर्थोऽन्यथा यथाश्रुते स्वरूपासिद्धेः । अत्र सत्यन्तमात्मन्युत्तरप्रतीकं चोक्तस्थले व्यभिचारवारणाय । तत्र कर्मत्वघटत्वादेस्तादृशजातेः सत्त्वात् । प्रत्यक्षशब्दमात्रस्य पक्षत्वमतो नाद्यान्त्यशब्दयोर्भागासिद्धिः । परमते स्वमते चासिद्धिवारणाय द्रव्यगुण [२]भिन्नेति । न च व्यर्थविशेषणता । प्रत्यक्षासमवेतेति । ज्ञानादौ साध्याव्यापकत्वनिरासाय प्रत्यक्षासमवेतेति ते (वे?) द्यविशेषणम् । मनोवेद्यतया वायुस्पर्शादौ साध्याव्यातेराह मात्रेति । जलपरमाणुरूपादौ चेन्द्रियविद्यत्वादेवोपाधिरिति न साध्याव्यापकता । अत एवेश्वरज्ञाना( दा?) वपि न साध्याव्यापकता । निरवयवेति । शब्दस्य गुणत्वव्यति-


  1. यदि तु द्रव्यं स्यात् वा० ।
  2. ० णत्वमि० ।