पृष्ठम्:न्यायलीलावती.djvu/३५०

एतत् पृष्ठम् परिष्कृतम् अस्ति
२७८
न्यायलीलावती


ध्वनिरस्तु, स्थूलेब्वैन्द्रियकः कारणगुणपूर्वकः । स चोत्पत्तौ भेरदिण्डाद्यभिघातसापेक्षो [१] याबद्रव्यभावी च आश्रय [२] एवो. पलभ्यते चेति किमसङ्गतमिति चेन्न, शब्दस्य विशेषगुणत्वे सति त्वगिन्द्रियावेद्यस्वेन रूपादिवदवायवीयत्वात् । न दिक्कालमनोगुणः प्रत्यक्षत्वात् रूपवत् । नात्मनो बाह्येन्द्रियवेद्यत्वात् [३]


न्यायलीलावतीकण्ठाभरणम्

मेवेति भावः । स चेति । सर्वदोपलब्धिवारणाय द्वितीयस्य हेतोरसिद्धिमाह - यावद्द्रव्यभावीति । तृतीयहेतोरसिद्धिमाह स्वाश्रय एवेति । एतच्च वायुप्रत्यक्षवादिमते । शब्दस्येति । शब्दो न वायुगुणः प्रत्यक्षत्वे सति त्वगिन्द्रियावेद्यविशेषगुणत्वाद् रूपादिवदित्यर्थः । न दिक्कालेत्युपलक्षणं नात्मगुणो वहिरिन्द्रियप्रत्यक्षत्वात् क्ष्रोत्र-

न्यायलीलावतीप्रकाशः

क्त्तम्, अणुष्वतीन्द्रिय इत्यनेनाद्यस्य हेतोरसिद्धिरुक्ता । स चेत्यनेन कारणगुणपूर्वकत्वे शब्दस्य सर्वदोत्पत्तिर्निराकृता । एतच्चोपपत्तिसौकर्यादुक्तं शब्दानुत्पत्तिकाले भेरीदण्डोदीरिते वायौ मानाभावात् । शब्दस्येति । स्पर्शेतरविंशेषगुणत्वादित्यर्थः । 'अवायवीयत्वं'

न्यायलीलावतीप्रकाशविवृतिः

योग्यतागर्भत्वम् । एवमपि रसे व्यभिचार इत्यत आह - अयोग्येति । उपलब्धियोग्यत्व मात्रमनुषञ्जनीयमन्यथा परमाणुगुणैरेव व्यभिचारापत्तेः । यद्यप्याश्रयं विनेत्यस्य आश्रयासन्निकर्ष इत्यर्थे तस्मिन्सति प्रतीयमानत्वादिति ऋजुरेव हेतु (:?) सम्यक् तथापि वीणावच्छिन्ननमः श्रोत्रतापक्षे स्वरूपासिद्धिप्रसङ्गादित्यर्थमुक्तम् ।

 यथाश्रुतेति । चरमविवक्षितहेतोस्तथापि स्वरूपासिद्ध्यसम्भवाद्यथाश्रुतेत्युक्तम् । यथाश्रुते वायुपरमाणुस्पर्शव्यभिचारादन्यथा व्याचष्टे—स्पर्शेतवे[ रे ? ]ति | ननु ( अ ? ) वायवीयत्वमवायुजन्यत्वं वायु (य्व ? ) जन्यत्वं वा । आद्ये सिद्धसाधनमन्त्ये व ( च ? ) वाध इत्यत


  1. भेरीदण्डादिसा० ।
  2. स्वाश्रय इति कण्ठाभरणसम्मतः पाठः ।
  3. वाझकरण प्रत्यक्षत्वात् ।