पृष्ठम्:न्यायलीलावती.djvu/३५१

एतत् पृष्ठम् परिष्कृतम् अस्ति
२७९
न्यायलीलावतीकण्ठाभरण-सविवृतिप्रकाशोद्भासिता


तदाकाशमितरेभ्यो भिद्यते शब्दसमवायित्वात् । न यदेवं न तदेवं यथा घटः । इति [ आकाशः । ]

 ननु कालसत्त्वे किं प्रमाणम्, अध्यक्षमनुमानं वा । नाद्यः । अरूपत्वे [१] नानध्यक्षत्वात्, प्रतिभासाभावाच्च । न द्वितीयः ।


न्यायलीलावतीकण्ठाभरणम्

ग्राह्यत्वादिस्यपि द्रष्टव्यम् । तदाकाशमिति । शब्दाश्रयतया यत् सिद्धमित्यर्थः ।

 शब्दः क्वचिदाश्रित इति सामान्यतोदृष्टात् परिशेषसहकृतात सिद्धमित्यन्ये । यद्यपि साध्याप्रसिद्धिः न हीतरभेदोऽयं क्वचित् सिद्धो यदाकाशे साध्येत पृथिव्यादावितरभेदस्य साध्यस्य घटादौ कथञ्चित् प्रसिद्धत्वात् तथापि पृथिव्यादिभेदानां जलादौ प्रसिद्धानां प्रत्येकं मेलकस्य साध्यत्वादित्यर्थः ।

 कालसत्व इति । यौगपद्यादिप्रत्ययहेतुसत्त्व इत्यर्थः । अरूपित्वेनेति । अरूपवहिर्द्रव्यत्वेनेत्यर्थः । वहिर्द्रव्यत्वं च सामान्यतः सिद्धमेवेति भावः । प्रतिभासेति । अयं घटवदयं काल इत्याकारप्रतिभासाभावा च्चेत्यर्थ: । केचिदरूपत्वे हेतुरयमित्याहुः । तत्र चकारास्वरसः ।

न्यायलीलावतीप्रकाशः

वायुविशेषगुणत्वानाश्रयत्वमित्यर्थः । तदिति । शब्दः समवायिकारणजन्यो भावकार्यत्वादिति सामान्यतोदृष्ट। दुक्तपरिशेष सहायाद् यत्सिद्धमित्यर्थः । नन्वितरभेदः पृथिव्यादिचतुर्दशप्रतियोगिकान्योन्याभावः तस्याप्रसिघ्घा कथं व्यतिरेकनिरूपणम् । अत्राहु: । पृथिव्याद्यन्योन्याभावा अष्टावष्टसु प्रसिद्धा एकत्राकाशे साध्यन्ते अतो नाप्रसिद्धिः ।

 अरूपित्वेनेति । आत्मभिन्नारूपिद्रव्यत्वेनेत्यर्थः । रूपमेवास्य न कुत

न्यायलीलावती प्रकाशविवृतिः

आह— वायुविशेषति। पुथिव्यादीति । गुणादिभेदस्योभय सिद्धत्वादष्टकेत्युक्त्तम् । तदसिद्धौ त चतुर्दशभेदाश्चतुर्दशसु प्रसिद्धा इति द्रष्टव्यम् । इदमुपलक्षणं इतरे आकाशनिष्ठभेदप्रतियोगिनः शब्दानाश्रयत्वादित्येवमपतरभेदानुमानं द्रष्टव्यम् । साध्यप्रसिद्धेर्घटादावेव सुल-


  1. अरूपित्वेनेति कण्ठाभरणसम्मतः पाठः ।