पृष्ठम्:न्यायलीलावती.djvu/३५२

एतत् पृष्ठम् परिष्कृतम् अस्ति
२८०
न्यायलीलावती



लिङ्गाभावात् । परापरादिषट्कं लिङ्गमिति चेत् , न, परापरत्वे[१]


न्यायलीलावतीकण्ठाभरणम्

नाद्य इति । कालेनाध्यक्षं प्रमाणमित्यर्थः । अरूपत्वेन विषयस्यै बानध्यक्षत्वादिति हेत्वर्थः । तथा च न साध्याविशेषः । न च वैयधि कर ण्यमनध्यक्षे विषयेऽध्यक्षं न मानमिति कश्चित् सामानाधिकरण्योषषत्तेः पञ्चमीप्रयोग( :? )साधुस्तथाच साध्यानुवादमात्र मिदमित्येके। पञ्चम्या प्रमाणसामान्याभावः सूचितस्तेन विशेषाभावः सुप्रतिपद इत्यपरे । परापरेति । परापरव्यतिरकयोगपद्या-

न्यायलीलावतीप्रकाशः

इत्यत आह--प्रतिभासेति । चः पुनरर्थे । अरूपत्वं पुना रूपवत्त्वेनाप्रतिभासादित्यर्थः । यद्वा अनध्यक्षत्वेन स्वरूपयोग्यताविरह उक्त प्रतिभासाभावेन च साक्षात्काराभावः । ननु नाध इत्यत्र यदि प्रमाणाभावः साध्या, तदाऽनध्यक्षत्वादिति व्यधिकरणो हतुः। अथ प्रत्यक्षावषयत्वाभावः साध्यस्तदा साध्यावैशिष्टयम् । अत्र नाद्य इति साध्यमेवाऽनूदितमनध्यक्षत्वादित्यनेन पञ्चमीनिर्देशश्च प्रमाणाभावमात्रसूचनाय । यावद्विशेषाभावस्य सामान्याभावहेतुत्वादिति सम्प्रदायविदः । परत्वापरत्वे इति । परत्वापरत्वयोः समवायिकारणत्वा

न्यायलीलावतीप्रकाशविवृतिः

भत्वात् । हेतुहेतुत्वे चकारानुपपत्तिरत आह-कः (च. ?) पुनरिति । यद्वेति । तथा च साध्यसमुच्चयार्थक भावेऽपि तयोर्लिङ्गत्वं व्याप्यत्वम् । तच्च व्यापकनिरूप्यम् । तच्च एव चकार इति भावः । व्यधिकरण इति । प्रमाणाभावस्यात्मादिनिष्ठ त्वाद्धेतोश्च कालवृत्तित्वादिति भावः । सम्प्रदाविद इति । अत्र करणविशेषविषयत्वाभावः (साध्यः ?) फलाविषयत्व हेतुः । यद्वा फलाभावः साध्यो योग्यताविरहो हेतुरिति वृथा कुसृष्टिव्याख्यानमित्यस्वरसो द्रष्टव्यः । यथाश्रुत परत्वापरत्वयोरेव समवायित्वं प्रतीयत इत्यन्यथा व्याचष्टे-परमाणु (परत्वा ?) परत्वयोरिति । समवायि-


  1. परत्वापरत्वे स०।