पृष्ठम्:न्यायलीलावती.djvu/३५३

एतत् पृष्ठम् परिष्कृतम् अस्ति
२८१
न्यायलीलावतीकण्ठाभरण-सविवृतिप्रकाशोनासिता


तत्समवायितया वा लिङ्गं [१] तदसमवायितया [२] तन्निमित्ततया वा नाघः । “दिक्कालयोः पञ्चगुणवत्त्व" मिति भाष्य [३] विरोधात् । । नेतरः । संयोगस्यैव तादृशत्वात् । सन्निकृष्टादिबुद्धेरेव तन्नि-


न्यायलीलावतीकण्ठाभरणम्

यौगपद्यचिरक्षिप्रप्रत्ययषट्कमित्यर्थः । समवायियेति । समवेततयेत्यर्थः । तदसमवायीति । तस्यासमवायिनः कार्य्यतयेत्यर्थः । तन्निमित्तेति । तन्निमित्तं ययोस्त तुल्येत्यर्थः । तथा च कालः परत्वापरत्वे प्रति समवायिकारणमसमवायिकारणं निमित्तकारणं वेति विकल्पार्थः । असमवायिकारणसंयोगाश्रयत्वमग्रे दूष्यमित्याशयः । पञ्चगुणत्वमिति | संख्यापरिमाणपृथक्त्वसंयोगविभागा एव भाष्यकृता कालगुणाउक्तान तु परत्वापरत्वे अपीत्यर्थः । संयोगस्येत्युपलणं द्रव्यस्यासमवायिकारणत्वाभावाञ्चेत्यपि द्रष्टव्यम् । सन्निकृष्टादीत्यादिपदं विप्रकृष्टग्रहणार्थम् । बहुतरतपनपरिस्पन्दान्तरितजन्मत्वं विप्रकृ टत्वम् अल्पतरतपन परिस्पन्दान्तरितजन्मत्वं सन्निकृष्टत्वम् ।

न्यायलीलावतीप्रकाशः

भावेऽपि तयोर्लिङ्गत्वं व्याप्यत्वम् । तञ्च व्यापकनिरूप्यम् । तश्च व्यापकं समवायिकारणतयेत्यर्थः । तत्समवायितयेति पाठे तत्र समवेततयेत्यर्थः । तदसमवायिकारणतयेति । स कालोऽसमवायिकारणं यस्येति विग्रहः । “तदसमवायिकार्यतये”ति पाठे स चासमवायी चेति तदसमवायी कालः, तस्य कार्यमिति विग्रहः । तन्निमित्ततयेति । स कालो निमित्तं यस्य तस्य भावस्तत्ता असमवायिकारणसंयोगाश्रयतया कालसिद्धिश्च : न पृथग्विकल्पिता आकाशसंयोग एव तयोरसमवायिकारणमित्याशयात् । सन्निकृष्टादीति । आदिपदाद्विप्रकुष्टबुद्धिः । अल्पतरसूर्य क्रियान्तरितजन्मत्वं सन्निकर्षः । विप्रकर्षस्तु बहुतरत-

न्यायलीलावती प्रकाशविवृतिः

कारणत्वाभावेऽपि' कालसमवायिकारणत्वाभावेऽपि । तच्चव्यापकमित्यनन्तरं कालस्येति शेषः । तद् व्यापकत्वमित्यतो न पौनरूक्त्यमिति । वस्तुतो दुषितमपि दूषणान्तरदानाय पुनराशङ्कितमि-


  1. समवायितया तल्लिङ्गं तद० ।
  2. तदसमवाधिकार्ग्यतया वा ।
  3. प्रशस्तपादभाष्यम् ।