पृष्ठम्:न्यायलीलावती.djvu/३५४

एतत् पृष्ठम् परिष्कृतम् अस्ति
२८२
न्यायलीलावती


मित्तत्वात् न तृतीयोऽपि । सन्निकर्षाभावे [१] सन्निकृष्टबुद्धेरसत्त्वेन तत्सिद्ध्यर्थमवश्यं कालः स्वीकर्तव्य इति चेन्न, जगन्निमि- तभूतपरमेश्वरशक्तेरेव तदुपपत्तेः । एवं यौगपयादिप्रत्यया अपि न निरुपाधिसमयालम्बनाः । बैलक्षण्यानुपपत्तिप्रसङ्गात् । सोपाधिसमयावलम्बनत्वेन तत्सम्बन्धसिद्ध्यर्थं समयाभ्यर्थनं, त-


न्याय लीलावतीकण्ठाभरणम्

सन्निकर्षाभाव इति । सूर्य्यक्रियायाः साक्षात्सन्निकर्षो यूनि नास्ति तेन परम्परासम्बन्धः कल्पनीयः । परम्पराघटकं च पिण्डमार्त्तण्डसम्बद्धं द्रव्यं कल्पनीयम् । स च काल एवेत्यर्थः । जगन्निमित्तेत्यवश्याभ्युपगमार्थम् । परमेश्वर एव शक्ति:, ईश्वरसंयोगो वा शक्तिः । ईश्वरस्थापि व्यापकत्वे पिण्डमार्त्तण्डसंयोगसम्भवादिति भावः । तदुपपत्तरिति । सूर्य्यक्रियासन्निकर्षोपपत्तेः । संयुक्तसंयुक्तसमवायोपपत्तेरित्यर्थः । ननु यौगयद्यादिप्रत्ययात् कालसिद्धिः स्यादित्याह – एवमिति । सम्बन्धसिद्ध्यर्थमिति । सूर्थ्यक्रियापरम्परासिद्ध्यर्थमि-

न्यायलीलावतीप्रकाशः

दन्तरितजन्मत्वम् । सन्निकर्षति । जेष्टकनिष्ठयोः सूर्यक्रियाबहुत्वाम्पत्वावच्छेदबुद्धिरस्ति, सा च सम्बन्धनियता । तत्र सूर्यक्रियायाः सूर्यसमवेतायाः पिण्डेन साक्षात्सम्बन्धाभावेन परम्परासम्बन्धार्थ परम्परासम्बन्धघटकतया कालस्वीकार इत्यर्थः । परमेश्वरेति । परमेश्वर एव शक्तिः सहकारित्वात् तत एव क्लृप्तात् संयुक्तसंयुक्तसमवायलक्षणः परम्परासम्बन्धः सिद्ध इत्यर्थः । यद्व। परमेश्वरश किर्ज्ञानादि तद्विषयत्वनैव विशेषणताविशेषलक्षण सम्बन्धसिद्धिरि त्यर्थः । सम्बन्धसिद्ध्यर्थमिति । सूर्यक्रियया पिण्डस्य परम्परासम्बन्ध

न्यायलीलावतीप्रकाश विवृतिः

त्येवापौनरुक्त्यं प्रयोजनवत्वादिति सारम् । संयुक्तसंयुक्तेति । तत्प्रतीति विषयीभूतसम्बन्धमात्रेणतरमात्रविशेषणत्वप्रतीतिरेव तत्तत्प्रतीतौ [२]प्रतिवन्धिका सा चात्र नास्ति । अन्यथा समवायेन नीलीद्रव्यमा. त्रविशेषणत्वेन प्रतीयमानस्य नीलरूपस्य परम्परासम्बन्धेन पटप्र


  1. ०र्षाभावेन स० ।।सन्निकर्षाभावात् स० ।
  2. तत्र तद्प्र० ।