पृष्ठम्:न्यायलीलावती.djvu/३५५

एतत् पृष्ठम् परिष्कृतम् अस्ति
२८३
न्यायलीलावतीकण्ठाभरण-सविवृतिप्रकाशोद्भासिता


त्वाम्ब्ररादि [१]द्वारेणैवोपपन्नमिति समयप्रतिबन्धस्यासिद्धेः । न च परत्वापरत्वसिद्धिरपि । बहुतरतपनपरिस्पन्दान्तरित जन्मत्वेनैव तदुपपत्तेः । अन्यथा मध्यत्वस्यापि स्वीकारप्रसङ्गादिति भूषणः । न च तपनपरिस्पन्दानां [२] साक्षादवच्छेदकतानुपपत्तौ [३] तन्निर्वाहककालकल्पनेति वाच्यम्, कालपतीतौ तद्दारा विशिष्टप्रत्ययो विशिष्टप्रत्यये च कालानुमानात् [इतरेतराश्रया दिति] । अत्रोच्यते । दृश्यते तावद्दिवसमासादिवैचित्र्येण तपन-


न्यायलीलावतीकण्ठाभरणम्

त्यर्थः । प्रतिबन्धस्येति । समयं विना सुर्थ्यपिण्ड सम्बन्धासिद्धिरिति प्रतिबन्धो नास्तीत्यर्थः । परत्वापरत्वे यदि स्यातां तदा काललिङ्गता सम्भाव्येतापि त एव न प्रमाणमित्यर्थ इत्याह - न चेति । तन्निमित्तकारणीभूत बहुतराल्पतरतपन परिस्पदान्तरित जन्मत्वबुद्ध्योरेव तदुभयव्यवहारजनकत्वादित्यर्थः । अन्यथेति । यदि तादृशबुध्धा नान्यथालिद्धिरित्यर्थः । ननु तपनपरिस्पन्दः पिण्डावच्छेदकतया स्फुरन्तः सम्बन्धमपेक्षमाणाः कालमेव सम्बन्धमासाद्य विशिष्टप्रत्ययविषया इत्यवश्यं काल कल्पनेत्यत आह - न चेति । पूर्व्वं कालघटितः सम्बन्ध उक्त इदानीं काल एव सम्बन्धतया सिध्येदित्यपौनरुक्त्यम् । दृश्यते तावदिति । दिवसमासादयः सूर्य्यक्रियाघटितास्तथा च

न्यायलीलावतीप्रकाशः

सिद्ध्यर्थमित्यर्थः । बहुतरेति । परत्वापरत्वोत्पत्त्यर्थमपि नियतकारणापेक्षाबुद्धेस्तद्विषयत्वोपगमात् तत एव परापरव्यवहारोऽप्यस्त्वित्यर्थः । एवं निमित्तलनिकृष्टादिबुद्धिकारणसम्बन्धघटकतया कालसिद्धिं निरस्य सम्प्रति परत्वापरत्वासमवायिकारणसूर्य क्रियोपनायकद्रव्यसंयोगाघारतया कालसिद्धि निरस्पति---- न चेति । अतो न पौनरुक्त्यम्। पूर्व सूर्यकि पाविशिष्टज्ञानान्यथानुपपत्या कालानुमानमुक्तमिदानीं प्रत्यक्षत एव कालः सिद्ध्यतीत्यपौनरुक्त्यमित्यन्ये । इदानीं घट इति च प्रत्यक्षं न कालसिद्धौमानम्, उपाधिविषयत्वात् । अन्यथा कालस्यै कत्वे क्षणमुहूर्त्तादिज्ञानानुपपत्तेरिति भावः। दृश्यते तावदिति । यद्यपि


  1. तच्चेश्वरादिद्वा० ।
  2. ० स्पन्दभेदानां सा० ।
  3. साचात तदनुपपत्तौ ।