पृष्ठम्:न्यायलीलावती.djvu/३५६

एतत् पृष्ठम् परिष्कृतम् अस्ति
२८४
न्यायलीलावती


परिस्पन्दभेदानां तत्तत्पदार्थसार्थे विशिष्टबुद्धिजनकत्वम् । ते च विशिष्टबुद्धिजनने स्वमत्यासत्तिमपेक्षन्ते । स्वरसतोऽप्रत्यासन्नत्वे सति [१]विशिष्टव्यवहारजनकत्वात् चन्दने सौरभवत् ।


न्यायलीलावतीकण्ठाभरणम्

दिवसावच्छेदः क्रियावच्छेद एव सूर्य्यक्रियाया अतीन्द्रियत्वेऽप्युपनीतायाः प्रत्यक्षप्रतीतौ भानं विशेषणत्वेन वाच्यम् । विशेषणता च सम्बन्धाधीना सम्बन्धश्चान्यो नास्तीति संयुक्तसंयुक्तसमवायो वाच्य इति तद्द्घटककालासिद्धिरित्यर्थः । ते चेति । तपनपरिस्पन्दा इत्यर्थः । स्वरसतोऽप्रत्यासन्नत्वं स्वरूपसम्बन्धरहितत्वम् । ननु स्वरूपसम्बन्ध एव प्रकृते स्यादत आह --- स्वरसत इति । सम्बन्धान्तरमन्तरेण विशिष्टधीविषयतया स्वरूपसम्बन्ध: स्यात् । प्रकृते च सम्बन्धान्तरसम्भावनैव, अन्यथा सयोगविभागावपि न स्यातामिति

न्यायलीलावतीप्रकाशः

सूर्यगतेरतीन्द्रियतया न तद्वैशिष्ट्यं प्रत्यक्षं तथापि ज्ञानान्तरोपनीता विशेषणत्वेन प्रत्यक्षज्ञानेऽपि भासते । न च सूर्यगतेस्तद्विशेषणत्वे नैव प्रतीतेः पिण्डविशेषणत्वेन भानं न स्यात्, इतरविशेषणत्वेना प्रतीतौ सत्यां प्रतीतेर्विशिष्टधीहेतुत्वादिति वाच्यम्, संयुक्तसंयुक्तविशेषणत्वेनेतर विशेषणतया प्रतीत्यभावात्तथात्वेन तदविरोधात् । सूर्यगतौ च क्षणादिविशिष्टधीः सत्तायां सद्बुद्धिवदभेदेऽपि नानुपप न्ना । रात्रौ च द्वीपान्तरवर्त्तिसूर्यगत्या क्षणव्यवहारः समर्थनीयः । ते चेति । सूर्यस्पन्दाः घटनिष्ठविशिष्टधीजनक प्रत्त्यासत्तिमन्तः घटविषयकविशिष्टघीजनकविशेषणत्बात् घटरूपवदित्यर्थः । स्वरसतोऽप्र त्यासन्नत्वं सम्बन्धान्तरं विना विशिष्टधीजनकत्वाभावः । विशेषणा-

न्यायलीलावतीप्रकाशविवृतिः

तीतिर्न स्यादिति भावः । द्वीपान्तरेति । वर्षान्तरेत्यर्थः । सूर्यस्पन्दा इति । घटविशेष्यकस्वविशेषणकधीजनकप्रत्यासत्तिमन्त इत्यथोऽन्यथा पढत्वविशिष्ठधी जनकसमवायसवेनार्थान्तरापत्तेः । 'जनकविशेषणत्वात्' जनकज्ञानविषयविशेषणत्वात् । स्वरसत इति । यद्य-


  1. तोऽप्रत्यासान्तविशिष्टव्य ।