स्वरसप्रत्यासत्तिरहिताश्च [१] सम्बन्धे बाघकाभावात् परम्परासम्बन्धिनश्च साक्षात्सम्बन्धविरहे सति सम्बन्धित्वात् पटसंसृ-
न्यायलीलावतीकण्ठाभरणम्
भावः । स्वरसेति । स्वरूपसम्बन्ध रहिता इत्यर्थः । अतिरिक्त सम्बन्धे बाघकाभावात् । तर्हि साक्षात्सम्बन्धघटक एव कश्चित् स्यात् समवायवादत्याह-परम्परेति । परम्परासम्बन्धेन विशिष्टबुद्धिजनका इत्यर्थः । यद्यप्यापाततः सम्बन्धित्वादिति स्वरूपासिद्धं स्वरूपसमवायादौ व्याभिचारश्च तथापि घटासमवेतत्वे सति घटनिष्ठविशिष्टाधीजन-
न्यायलीलावतीप्रकाशः
सिद्धिं परिहरति - स्वरसेति । 'सम्बन्धे' अतिरिक्तसम्बन्ध इत्यर्थः । परम्परेति । यद्यपि सम्बन्धमात्रासिद्धौ तद्विशेषस्य परम्परासम्बन्ध-
न्यायलीलावती प्रकाश विवृतिः
पि विवक्षितहेतौ नैतद्विशेषणं तथापि यथाश्रुतमूलानुसारेण मूलोक्त्तविवरणमिदम् । विशेषणासिद्धिं परिहरतीत्यपि फक्किका मूलानुसारेणेति नवीन: [२] । वस्तुतः स्वरूपसम्बन्धेनार्थान्तरवारणाय सम्बन्धिभिन्नप्रत्यास त्तित्वमेव साध्यं तथा सति घटाभावे व्यभिचारवारणायात्रापि तद्विशेषणमिति तदभिप्रायक एवायं ग्रन्थः । न चैवमग्रे स्वरूपसम्बन्धेनार्थान्तरप्रतिपादनविरोधः । सम्बन्धिभिन्नत्वांशेऽप्रयोजकत्वमिति तद्रहितमेव साध्यं वाच्यमित्यभिमानेन तदुपपत्तेः । यद्यपीति । ननु ते चेत्यादिना सम्बन्धसाधनादिदमयुक्तम् । अत एव सम्बन्धित्वादिति हेतुरसिद्ध इत्यग्रे फक्किकापि विरुद्धा । मास्तु वा सम्बन्धसिद्धिस्तथापि नीलपटवत् प्रथमत एव परम्परासम्बन्धसाधने विरोधाभावात्तद्विशेषस्येत्यादिफक्किकानुपपन्नैव । अत्र ब्रूमः । परम्परासम्बन्धिन इत्यत्र मिनाघटित विशिष्टधी नियामकस्यैव सम्बन्धिद्वय सम्बन्धपदेनाभिधानम् । त स्यैव च साक्षात्परस्परासम्बन्धनामक विशेषद्वयमित्यभिमानेन पूर्वपक्षावतारात् । तदभिप्रायेणैवासिद्ध्युद्भावनमध्यग्रे । सम्बन्धत्वं साध्ये विशिष्टधीनियामकत्वमात्र मेवोक्तमन्यथा प्रकृतानुण्योगापत्ते