पृष्ठम्:न्यायलीलावती.djvu/३५८

एतत् पृष्ठम् परिष्कृतम् अस्ति
२८६
न्यायलीलावती


ष्टनीलत्ववत् [१] । न चेतरेतराश्रयः । सति सम्बन्धेऽवच्छेद्या-


न्यायलीलावतकिण्ठाभरणम्

कानात्मसमवतभावत्वादिति हेतुः । नीलत्ववदिति । घटनिष्ठनीलगुणसमवेतनीलत्वजातिवदित्यर्थः । न चेति । सम्बन्धसिद्धौ विशिष्टधीस्तस्यां च सम्बन्धसिद्धिरित्यन्योऽन्याश्रय इत्यर्थः । विशेषणज्ञानविशेष्येन्द्रिय सन्निकर्षात् स्वरूपसन्निव सम्बन्धो विशिष्टज्ञानं जनयति न तु ज्ञात इति नान्योऽत्याश्रय इत्याह अवच्छेद्येति । अवच्छेदकदृश्य-

न्यायलीलावतीप्रकाशः

स्थापि सिद्धिस्तथापि सम्बन्धपरम्परया विशिष्टधीजनका इति साध्यार्थः, तथापि सम्बन्धित्वादिति हेतुरलिद्धः । साक्षात्सम्बन्धाभावश्च यदि संयोगसमवायाभावः, तदा स्वरूपसम्बन्धे समवायादौ व्यभिचारः, अन्यश्च वक्तुमशक्यः । अत्राहुः समवेतत्वे सति घटनिष्ठबुद्धिजनकत्वे च घटासमवेतत्वादित्यत्र तात्पर्यम् । नीलत्ववदिति । नीलरूपवृत्तिजातिवदित्यर्थः । सति सम्बन्ध इति । यथार्थविशिष्टज्ञाने योग्यविशेष्यसन्निकर्षो विशेषणशानं तयोः सम्बन्धः स्वरूपसन्नित्येव

न्यायलीलावतीप्रकाशविवृतिः

रिति सम्बन्धपरम्परावत्त्वमेव साध्यमित्यभिसन्धानेन सिद्धान्तः । सम्बन्धपरम्परेति । विपरिवर्त्तनस्य च परम्परासम्बन्धनामकसम्बन्ध एव साध्य इति भ्रमनिराकरणं प्रयोजनम् । हेत्वसिद्धिरपि यथोक्तामिसन्धानेनैव निरस्येत्यग्रे तथैव हेतुरुक्तः । अन्यथे ( क्ष्चे ? ति ) यद्यपि सम्बन्धिद्वयभिन्नाघटितसम्बन्ध एव साक्षात्सम्बन्ध इति तदभावो निर्वक्तुं शक्यत एव तथापि स्वरूपसम्बन्धशङ्कया निरुक्त प्रप्यासिद्ध मेवेत्यमिसन्धानेनैतदुक्तम् । समवेतत्वे सतीति । घटनिष्ठध्वंसे व्यभिचार इत्याद्यम् | उदासीने व्यभिचारः घटनिरूपितपरम्परासम्बन्धवत्वस्यैव साध्यत्वादिति द्वितीयम् | तस्य च घटविशेष्यकबुद्धिजनकज्ञानविषयत्वादित्यर्थोऽन्यथाऽसिद्धेः घटत्वे व्यभिचार इति तृतीयम् । असमवेतत्वेनासंयुक्तत्वमप्युपलक्षितमतो न संयुक्तपटे व्यभिचारः । एवमपि घटज्ञाने व्यभिचार इति गुणभिन्नत्वम-


  1. नीलिमवत ।