पृष्ठम्:न्यायलीलावती.djvu/३५९

एतत् पृष्ठम् परिष्कृतम् अस्ति
२८७
न्यायलीलावतीकण्ठाभरण- सविवृतिप्रकाशोद्भासिता


वच्छेदक दृश्यतयैव [१] विशिष्टव्यवहारदर्शनात समवायाती


न्यायलीलावतीकण्ठाभरणम्

तापदेन विशेषणज्ञानमात्रमभिमतम् । नन्वेतावता पिण्डतपनपीरस्पम्दयोः संयुक्तसमवायः पृथिव्यादिनैव सिध्येदिति न कालसिद्धिरि-

न्यायलीलावतीप्रकाशः

हेतुर्न तु सम्बन्धज्ञानमपीत्यर्थः । एतदेव स्फुटयति - समवायति ।

 ननु विशेषणतासम्बन्धेनैव सिद्धसाधनम् । न च विशेषणता सम्बन्धान्तरनियता घटाभावभूतलयोस्तदभावात् । भावत्वे सतीत्यपि न घटज्ञानयोरनेकान्तात् अस्तु वा सम्बन्धः साक्षादेव पिण्ड सूर्यकर्मणो: स एव कालस्तस्य द्रव्यत्वे तव्द्यापकसंख्याद्यनेककल्पनापत्तौ गौरवात् तथा च साक्षादसम्बन्धोऽसिद्धः । नापि परत्वापरत्वासमवायिकारणसंयोगाश्रयतया कालसिद्धिः, सूर्यकर्मण एवासमवायिकारणत्वसम्भवात् । न च पिण्डेन तस्यासम्बन्धान्न तत्त्वं कालस्यैव तत्सम्बन्धरूपत्वात् । न चातीतत्वात सूर्यकर्मणस्तदभावः परत्वाघुत्पत्त्यव्यवहितपूर्वे सदेव कर्मासमवायिकारणम्, अतीतकर्मविषयापेक्षाबु-

न्यायलीलावतीप्रकाशविवृतिः

पि विशेषण (म् ? । ) नीलत्वजातिश्च दृष्टान्त इत्यवधेयम् । सम्बन्धज्ञावमपीति । अत्र न हेतुरुपलक्षणम् । सम्बन्धविशिष्टबुद्धौ विषयोऽपि नेति द्रष्टव्यम् । सिद्धसाधन मिति । सूर्यस्पन्दाद्यनुमान इति शेषः । एवं च परम्परासाधनममयोजकमिति भावः । ननु लाघवादेवानुगतपरम्परासम्बन्ध: समवायवत् सिद्धयतीत्यरूचेराह --- अस्तु वेति । नन्वेवं कालः सिद्ध एवेत्यत आह - तस्येति । द्रव्यात्मकः कालः तथाप्यसिद्ध एवेति भावः । तथा चेति । इदं च यथाश्रुत हेत्वनुसारेण यथानिरुक्क हेतौ वा प्रयोजकत्वमिति भावः । नापीति । तथा च संयोगाधिकरणतया तत्सिद्धौ द्रव्यत्वं सिद्धमेव तस्येति भावः । कालस्यैवेति । सम्बन्धत्वेनागतस्य द्रव्यभिन्नस्येत्यर्थः । न च कार्यकारणान्यतरैकार्थ समवायस्थासमवायिकारणतानिर्वाहकस्य कालात्मक सम्बन्धस्वीकारेऽव्यस्वीकारात्कथ सूर्यगतेः


  1. ०श्यतामात्रेण वि० ।