पृष्ठम्:न्यायलीलावती.djvu/३६०

एतत् पृष्ठम् परिष्कृतम् अस्ति
२८८
न्यायलीलावती


न्यायलीलावतीप्रकाशः

द्धिर्निमित्तकारणमित्यदोषात् । अस्तु वा संयोग एव तथा तथाप्याकाशसंयोगस्यैवासमवायिकारणत्व सम्भवेऽधिक मानाभावात् । अत्राहुः सूर्यकर्मणा पिण्डेन साक्षातसम्बन्धे तत्र चलतीति प्रतीतिप्रसङ्गः । न च कर्मसमवाये तथा प्रथते, अयं तु तद्विलक्षण एव सम्बन्ध इति वाच्यम्, अद्रव्यनिरूपितस्यातिरिक्तसाक्षात्सम्बन्धस्य समवायत्वव्याप्तेः । किञ्च कालाख्यसम्बन्धस्यानित्यत्वे कर्मण्यभावापत्तेः, तन्नित्यतयां नित्यसम्बन्धस्य समवायत्व एव पर्यवसानात् । तथा च साक्षादसम्बन्धसिद्धौ कर्मविशिष्टज्ञानस्य कर्मातिरिक्तसम्बन्धापेक्षत्वनियमात् पिण्डेन तादृशसम्बन्धबुद्धौ हेतुविशेषणासिद्धिनिरासात् । परम्परासम्बन्धे च सिद्धे तद्घटकत्वेन कालसिद्धिः । न च विशेषणनासम्बन्धेन विशिष्टप्रतीतिः स्वरूपसम्बन्धातिरिक्तसम्बन्धे बाधकमन्तरेणाद्रव्यस्य तदसमवायिनि विशेषणतायाः परम्परा सम्बन्धेन व्याप्तत्वात् सूर्यक्रियायाः पिण्डेन सहाश्रयघटितसम्बन्धकल्पनात् । नापि घटवृत्तिजातिसामानाधिकरण्यमेव सम्बन्ध

न्यायलीलावतीप्रकाशविवृतिः

समवायिकारणत्वमिति वाच्यम्, ताडशनित्यसम्बन्धमात्रस्यैव लाघवेन तथात्वात् । नित्यसम्बन्धतायाः समवायिनिर्वचने कालात्मक सम्बन्धसिद्धौ तभ्दिन्नत्वबिशेषणादाने तद्ग्राहकमानबाधादसिद्धौ च तद्भिन्नत्वाज्ञानाञ्च | अद्रव्येति । घटपटसंयोगेऽतिप्रसक्तिरित्यद्रव्यनिरूपितेति । घटादावतिप्रसक्तिरिति सम्बन्धस्येति । परम्परासम्बन्धत्वेऽतिप्रसक्तिरिति साक्षादिति । वस्तुतो लाघवान्नित्य सम्बन्धमात्रादेव चलतीति प्रतीतिरिति तत्वम् । कर्मणीति । तस्य जन्यधर्मानाश्रयात्वादिति भावः । कर्मेति । असाधारण्येन कर्मणि [१] आधेयताज्ञानस्येत्यर्थः । यथाश्रुते कर्र्मविशिष्टाभावज्ञानादिप्रतीतौ स्वमते कर्मविशिष्टकालप्रतीतौ च व्यभिचारापत्तेः । हेतुविशेषणति । इदं च मूलानुसारेणेति स्मर्तव्यम् । कर्मेत्यादिव्याप्तिविरोधेनार्थती निराकृतमपि व्याप्त्यन्तरविरोधदानाय शङ्कते-- न च विशेषणतेति । स्वरूपेति । घटाभावविशेषणतया [२] व्यभिचार इत्यन्तरेणेत्यन्तम् । पुरुषे दण्डविशेषणतायां -याभिचार इत्यद्रव्य-


  1. कर्मण आ० ।
  2. विशेषणतायां व्य० । नित्यसम्बन्धतायाः