पृष्ठम्:न्यायलीलावती.djvu/३६१

एतत् पृष्ठम् परिष्कृतम् अस्ति
२८९
न्यायलीलावतीकण्ठाभरण- सविवृतिप्रकाशोद्भासिता


न्द्रियत्वे शीतलं जलमितिवत् । पिण्डतपनपरिस्पन्दयोश्च संयुक्तसंयोगिसमवायात्मनि परम्परासम्बन्धेन तावत्पृथिव्यादिकं हेतुः । तपन पिण्डाभ्यामसंसर्गात् । न च भास्कर [१] करनिकरस्तथा । तद भावेऽपि गृहनिखातपदार्थेषु मासाद्यवच्छेदात्[२] । न चा-


न्यायलीलावतीकण्ठाभरणम्

त्यत आह - पिण्डेति । तदभावेऽपीति । अहस्करकरसंसर्गाभावेऽपीत्यर्थः ।

न्यायलीलावतीप्रकाशः

स्तादृशी जातिर्लाघवादकैव कल्प्या | न चैवमवयविमात्रवृत्तिरकैव जातिरस्ति पृथिवीत्वादिना सङ्करापत्तेः । नापि द्रव्यमात्रवृत्तिः द्रव्यत्वेन सहान्यूनानतिरेकापत्तेः । द्रव्याद्रव्यवृत्तित्वे च सत्तया सहान्यूनानतिरेकापत्तः । संयुक्तसंयोगीति | न च संयोगद्वयघटितः सम्बन्धो न संयोगत्रयघटित इत्यत्र विनिगमकाभावः, विभुद्रव्यस्य सम्बन्धघटकत्वे संयोगद्वयस्यावश्यं वाच्यत्वात् सम्बन्धघ टकत्वात् । न चाकाशेति । ननु किमत्र साध्यं परत्वापरत्वविशेष प्रत्येतयोनिर्मित्तकारणत्वविरहो वा तदसमवायिकारणसंयोगाना. श्रयत्वं वा पिण्डसंयोगसमानाधिकरणसूर्यसंयोगगहित्यं वा । ना-

न्यायलीलावतीप्रकाशविवृतिः ।

स्येति । घटरूपविशेषणतायां व्यभिचार इति तदसमवायिनीति । न चातिरिक्तद्रव्यकल्पनागौरवमेव बाधकम्, अनुगमानुरोधेन तस्याबाधकत्वादन्यथा समवायस्याप्यसिद्धिप्रसङ्गात | तादृशीति । इदं च सर्वे जात्यन्तरकल्पनापक्षे दूषणं द्रष्टव्यम् । धर्मिग्राहकमानेन जातेर्नियतोपनायकत्वेनैव सिद्धेराकाशादिवदिति प्रसङ्गाभावेन जात्यन्तरस्यैव तथात्वेन शङ्कितत्वात् । यदा तु द्रव्यत्वादिकमेव परम्परासम्बन्धघटकमिति ब्रूयात् तदा काश्मीरवृत्तिकुङ्कुमरागेण वाराणसीस्थस्फटिक मणेरुपजनप्रसङ्ग एव बाधकः । किं च तदैकस्याउन्नायकत्वे विनिगमकाभावः, सर्वालां च तथात्वे गौरवमित्येव बा धकम् । न च संयोगद्वयेति । तथा च वाह्यलोकादिकर्मान्तर्भाव्य कालं विनापि परम्पर सम्बन्धः स्यादेवेति भावः । विभुंद्रव्यस्येति । 'तस्यैव'


  1. न चाहस्करक० ।
  2. च्छेददर्शनात् ।