पृष्ठम्:न्यायलीलावती.djvu/३६२

एतत् पृष्ठम् परिष्कृतम् अस्ति
२९०
न्यायलीलावती


काशात्मानौ तथा, विशेषगुणवत्वात् पृथिवीवत् । न चात्राव्यापकत्वमुमाधिः । तुल्ययोगक्षेमयोरुपाध्युपाधिमद्भावानुपपत्तेः । यदि च गगनमात्मा चान्यधर्मेणान्यमवच्छिन्द्यात् काश्मीरवर्त्तिना कुङ्कुमरागेण कार्णाटचक्रवर्तिकरकमल [१]मवच्छि-


न्यायलीलावतीकण्ठाभरणम्

तथेति । पिण्डतपनपरिस्पन्द सम्बन्धघटकावित्यर्थः । तुल्येति । साध्यव्यापकता ग्राहकमानाभावाद व्यापकत्वं नोपाधिरित्यर्थः । अस्तु तर्हि सन्दिग्धोपाधिरित्यत आह -- यदि चेति । अवच्छिन्द्यादिति । विशिष्ट-

न्यायलीलावतीप्रकाशः

द्यः । जगत्कर्त्तुस्तन्निमित्तत्वेन भागबाधात् । सूर्यस्यापि प्रत्यासस्थाश्रयत्वेन तथात्वे व्यभिचाराञ्च । न द्वितीयः । युवस्थविरपिण्डाभ्या मनेकान्तात् । नान्त्यः । बाधात् । मैवम् । पिण्डनिष्ठसूर्यक्रियाविशिष्टप्रत्ययजनकपिण्ड सूर्यसंयोगाश्रयत्वनिषेधस्य साध्यत्वात् । पिण्डसूर्यसंयोगाश्रयत्वेऽपि तयोर्विशिष्टव्यतिरेकस्य विशेषणाभावरूपत्वात् । विशेष्यवति विशिष्टाभावस्य तद्रूपत्वनैयत्यात् । न च विशेषगुणवत्वादित्यत्र विशेषपदव्यावर्त्यः कालोऽसिद्ध इति वा च्यम्, सामान्यतः सूर्यसंयोगोपनायकद्रव्यस्य सत्त्वेन गुणवत्वस्य व्यभिचारात् । तुल्येति साध्यव्यापकोपाध्यव्याप्यत्वेन साधनस्य सा-

न्यायलीलावतीप्रकाशविवृतिः

संयोगद्वयस्यैव लाघवात् सम्बन्धघटकत्वात् । लाघवं च संयोगत्रयपक्षे न संयोगद्वयस्यावश्यवाच्यतया । ननु लाघवमप्यकिञ्चित्करं सर्वत्र संयोगद्वयेनापर्थ्याप्तेरत उक्तं विभुद्रव्यस्य सम्बन्धघटकत्वे संयोगद्वयस्य सम्बन्धघटकत्वादित्यन्वयः । तथा च लाघवात् तदपि कल्व्यमिति भावः । ननु लीलावतीकारमतेन नोक्तदोष इत्यरुचे राह - सूर्यस्यापीति । 'तथात्वे' परम्परानिमित्तकारणत्वे । पिण्डेति । जनकान्तं संयोगस्य विशेषणं बाधवारणाय | ईश्वरस्य निमित्तकारणत्वेऽपि तत्संयोगस्यातथात्वात् न भागबाध इति भावः । विशे षणाभावरूपत्वात् । एवमग्रेऽपि । सामान्यत इति । यद्यपि संयोगोप


  1. ०वर्त्तिनां करकमलतलमव० ।