पृष्ठम्:न्यायलीलावती.djvu/३६३

एतत् पृष्ठम् परिष्कृतम् अस्ति
२९१
न्यायलीलावतीकण्ठाभरण- सविवृतिप्रकाशोद्भासिता


न्यायलीलावतीप्रकाशः

ध्याव्याप्यत्ववत साध्यव्याप्याव्यापकत्वेनोपाधेरपि साध्याव्यापकत्वसाधनादित्यर्थः । न चैवमुपाधिमात्रोच्छेदः, यत्र साध्योपाध्योर्याप्तिग्राहकमानावतारः, तत्र साध्यव्यापकतानिश्चयात् । तथापि सन्दिग्धोपाधित्वेन दुषकत्वमस्त्वित्याशङ्कय साध्यव्याव्यसाधनाव्यापकत्वेनोपाधेः साध्याव्यापकत्वनिश्चयार्थ तर्कमाह -- यदि चेति । नन्वेकावच्छेदकस्य सकलावच्छेदकत्वे मानाभावाद्याप्त्यभावेऽत्र मूलशैथिल्यम् । अत्राहुः । यदि सूर्यक्रिया विशिष्टप्रत्ययप्रयोजकाकाशनिरूपित सम्बन्धाश्रयः स्यात् शब्दवदाकाशातिरिक्तवृत्तिर्न स्यात् । एतद्विपर्ययश्चायं सूर्यक्रिया न तथा आकाशातिरिक्तवृत्तित्वात् शब्दत्ववत् । तत्र यदि कश्चिद्ब्रयात् कुङ्कुमारुणिन (पि गगनद्वारा कामिनीमुखमवच्छिद्यत एव, तत्रायंतकः - यदि गगनमन्यधर्मेणाऽन्यभवच्छिन्द्यात् कश्मीरवर्त्तिना कुङ्कुमरागेण कार्णाट चक्रवर्त्तिकरकमलमवच्छिन्द्यात्, यः सम्बन्धो यदवच्छेदकतावीजं तस्य तदवच्छेदकत्वेन व्याप्तत्वात्। वस्तुतो मूर्त्तत्वमव्यापकत्वं वा नोपाधिस्तथा हि मूर्त्तत्वमवच्छिन्नपरिमा णत्वम्, अव्यापकत्वं च सकलमूर्त्तसंयोगित्वाभावः। तत्रावच्छिन्नपदस्य सकलमूर्त्तपदस्य च पक्षमात्र व्यावर्त्तकविशेषणत्वेन पक्षेतरत्व-

न्यायलीलावती प्रकाशविवृतिः

नायिका दिक् तत्र च साध्यसम्बन्धान्न व्यभिचारस्तथापि संयुज्यते अनयेति व्युत्पत्त्या संयोगपदेन क्रियोक्ता । तथा च सामान्यतः सिद्धक्रियोपनायकद्रव्ये व्यभिचार इति विशेषपदमिति भावः । सूर्यकियेति । अत्राकाशातिरिक्तमात्रवृत्तित्वाभाव आपाद्यस्तेनाकाशसंयोगादौ न व्यभिचारः । एवमग्रे हेतोरपि मात्रपदं योज्यम् । केचित्तु आकाशसंयोगस्या न विशिष्टजनकसम्बन्धाश्रयत्वमिति न व्यभिचार इति यथाश्रुतमेव सम्यगत्याहुः । तदयुक्तम् | अविषयीभूतस्यापि सम्बन्धस्य यथार्थविशिष्टज्ञानमात्रजनकतया तस्यानुमित्यादिविशिष्टप्रत्ययजनकत्वात् । कुङ्कुमेति । तथा च तदरुणिमनि व्यभिचार इति भावः । ननु कुतर्कानुमानयोरप्रयोजकत्वमित्यरुचेराह-वस्तुत इति । यद्यपि दिशोऽपि व्यावर्त्तनान पक्षमात्रव्यावर्त्तकत्वं तथापि विशेषगुणवत्त्वलक्षण साधनावच्छिन्नपक्षमात्रव्यावर्त्तकत्वमीडशस्याप्युपाघेरुत्सर्गत आभासत इति भावः । वस्तुत इति साध्यव्यापकताग्राह-